अध्याय 5
अपठित-अवबोधन प्रकरण
(सरल गद्यांश पर आधारित कार्य)
१. सतां सज्जनानां, सङ्गतिः सम्पर्कः, संसर्गो वा ‘सत्सङ्गतिः’ इति कथ्यते। वस्तुतः सत्सङ्गात् एव मानवः समुन्नतो भवति। सज्जनानां संसर्गेण जनः सज्जनः भवति, दुर्जनानां संसर्गेण च दुर्जनः भवति। स्थाने एवोक्तं “संसर्गजा दोषगुणाः भवन्ति” इति। अत: स्वसमुन्नतिं इच्छता जनेन सर्वदा सतामेव सङ्गतिर्विधेया।
उपर्युक्तगद्यांशं पठित्वा प्रश्नानामुत्तराणि लिखत-
(१) अस्य गद्यांशस्य शीर्षकं लिखत।
(२) केन जनः सज्जनः भवति ?
(३) स्वसमुन्नतिम् इच्छता जनेन किं करणीयम् ?
(४) गद्यांशस्य सारं लिखत।
(५) ‘दुर्जनः’ शब्दस्य विलोमशब्द लिखत।
(६) ‘भवन्ति’ पदे का धातु = अस्ति।
उत्तर-(१) सत्सङ्गतिः।
(२) सज्जनानां संसर्गेण जनः सज्जनः भवति ।
(३) स्वसमुन्नतिम् इच्छता जनेन सर्वदा सतामेव सङ्गतिर्विधेया।
(४) गद्यांशस्य सारः यत्-‘सर्वदा सतामेव सङ्गतिः करणीया’ इति ।
(५) ‘दुर्जनः’ शब्दस्य विलोमशब्दः ‘सज्जनः’ इति ।
(६) ‘भू’ धातु।
२. शरीरं धर्मस्य प्रथम साधनम् अस्ति-‘शरीरमाद्यं खलु धर्मसाधनम्’। शरीरस्य आरोग्यं व्यायामेन सिध्यति। य: व्यायाम करोति तस्य प्राणशक्तेः आपदः स्वयमेव दूरं गच्छन्ति। व्यायामेन शरीरे शुद्धरक्तसञ्चारः भवति। इन्द्रियाणि सुस्थानि स्वस्थानि च भवन्ति। जठराग्निः दीप्तः भवति। परिवृद्धम् उदरं सङ्कोचं गच्छति। मस्तिष्कम् उर्वरं भवति। अस्मिन् लोके जनैः वयोऽनुसारं व्यायामः अवश्यः करणीयः।
उपर्युक्तगद्यांशं पठित्वा प्रश्नानामुत्तराणि लिखत-
(१) अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
(२) धर्मस्य प्रथमं साधनं किम् अस्ति ?
(३) कीदृशम् उदरं व्यायामेन सङ्कोचं गच्छति ?
(४) अस्य गद्यांशस्य सारं लिखत।
(५) ‘गच्छन्ति’ इति पदे का धातुः अस्ति ?
(६) केन शुद्धरक्तसञ्चारः भवति ?
(७) “कोऽपि’ पदस्य सन्धि विच्छेदः कुरुत।
उत्तर-(१) व्यायामस्य लाभाः।
(२) धर्मस्य प्रथमं साधनं शरीरम् अस्ति।
(३) परिवृद्धम् उदरं व्यायामेन सङ्कोचं गच्छति।
(४) अस्य गद्यांशस्य सारः यत्-‘सर्वैः जनैः व्यायामः अवश्य: करणीयः।’
(५) ‘गच्छन्ति’ इति पदे ‘गम्’ धातुः अस्ति।
(६) व्यायामेन शरीरे शुद्धरक्तसञ्चार : भवति।
(७) क: + अपि।
३. जननी जन्मभूमिश्च स्वर्गादपि गरीयसी। जन्मभूमिः स्वर्गात् उत्कृष्टतरा अस्ति। सा लोकानां शरणदायिनी, विविधखाद्यपदार्थप्रदायिनी, सर्वव्यवहाराणां लीलाभूमिः च अस्ति। वैदिकः ऋषिः कथयति-माता भूमिः पुत्रोऽहं पृथिव्याः। वयं राष्ट्रभावां, राष्ट्रियचरित्रं, त्यागभावनां विना राष्ट्रस्य
संरक्षणं कर्तुं न पारयामः। परस्परैक्यभावनां विना राष्ट्रं कदापि समृद्धः न भवति। अतः अस्माभिः स्वार्थ परित्यज्य देशस्य देशवासिनां च सेवा सततं करणीया।
उपर्युक्तगद्यांशं पठित्वा अधोलिखितप्रश्नानाम् उत्तराणि लिखत-
(१) जन्मभूमिः कस्मात् गरीयसी ?
(२) ‘माताभूमिः’ इति कः कथयति ?
(३) अस्य गद्यांशस्य सारं लिखत।
(४) ‘स्वर्गात्’ शब्दे का विभक्तिः अस्ति ?
उत्तर-(१) जन्मभूमिः स्वर्गादपि गरीयसी।
(२) ‘माताभूमिः’ इति वैदिकः ऋषिः कथयति।
(३) अस्य गद्यांशस्य सारं यत् अस्माभिः देशस्य देशवासिनां च सेवा सततं करणीया।
(४) पञ्चमी विभक्तिः।
४. संस्कृतभाषा अस्माकं देशस्य प्राचीनतमा भाषा अस्ति। प्राचीनकाले सर्वे एव भारतीयाः संस्कृतभाषया एव व्यवहारं कुर्वन्ति स्म। कालान्तरे विविधाः प्रान्तीयाः भाषा: प्रचलिताः अभवन् किन्तु संस्कृतस्य महत्वम् अद्यापि अक्षुण्णं वर्तते। सर्वे प्राचीनग्रन्थाः चत्वारो वेदाश्च संस्कृतभाषायामेव सन्ति। संस्कृतभाषा भारतराष्ट्रस्य एकतायाः आधारः अस्ति।
उपर्युक्तगद्यांशं पठित्वा अधोलिखितप्रश्नानाम् उत्तराणि लिखत-
(१) उपर्युक्त गद्यांशस्य उचितं शीर्षकं लिखत।
(२) अस्माकं देशस्य प्राचीनतमा भाषा का ?
(३) सर्वे वेदग्रन्थाः कस्याम् भाषायां सन्ति ?
(४) भारतराष्ट्रस्य एकतायाः आधारः कः ?
(५) कस्य महत्त्वम् अद्यापि अक्षुण्णं वर्तते ?
उत्तर-(१) संस्कृतभाषा।
(२) अस्माकं देशस्य प्राचीनतमा भाषा संस्कृतभाषा ।
(३) सर्वे वेदग्रन्थाः संस्कृत भाषायामेव सन्ति।
(४) भारतराष्ट्रस्य एकतायाः आधार: संस्कृतभाषा।
(५) संस्कृतस्य महत्त्वम् अद्यापि अक्षुण्णं वर्तते।
५. संसारे अनेकषां दुःखानां मूलकारणम् अज्ञानम्। अज्ञानात् एव समाजे नानाविकाराणां जन्म भवति।
हिंसाभ्रष्टाचारादयः ये उपद्रवाः अस्मान् पीडयन्ति, तेषां मूले अशिक्षा एव वर्तते। वयं शिक्षायाः
प्रकाशेन अज्ञानस्य अन्धकारं हतु सज्जाः भवेम।
उपर्युक्तगद्यांशं पठित्वा अधोलिखितप्रश्नानाम् उत्तराणि लिखत-
(१) अस्य गद्यांशस्य शीर्षकं लिखत।
(२) दुःखानां मूलकारणं किम् ?
(३) समाजे अनेके विकाराः कथं जायन्ते ?
(४) के उपद्रवाः अस्मान् पीडयन्ति ?
(५) ‘अज्ञानात्’ शब्दे का विभक्तिः अस्ति ?
उत्तर-(१) अज्ञानम्।
(२) दु:खानां मूलकारणम् अज्ञानम्।
(३) समाजे अनेके विकारा: अज्ञानात् जायन्ते।
(४) हिंसाभ्रष्टाचारादयः उपद्रवाः अस्मान् पीडयन्ति।
(५) ‘अज्ञानात्’ = पञ्चमी विभक्तिः।
६. अधोलिखितगद्यांशं सम्यक् पठित्वा प्रश्नानामुत्तराणि लिखत-
स्वस्थ-शरीरे एव स्वस्था बुद्धिः वसति । स्वस्था बुद्धि एव स्वस्थविचाराणां जननी अस्ति। व्यायामशील: मनुष्यः एव नीरोग: चिरंजीवी च भवति। व्यायामशीला: मनुष्याः प्रायेण रुग्णाः न भवन्ति।विविधरोगाणां चिकित्सा अपि व्यायामेन सम्भवति। अतः जीवनस्य कृते व्यायामः परमावश्यकः ।
(१) उपर्युक्तः गद्यांशस्य उचितशीर्षकं लिखत।
(२) स्वस्था बुद्धिः कुत्र वसति ?
(३) कः एव नीरोगः ?
(४) विविधरोगाणां चिकित्सा केन सम्भवति ?
(५) का स्वस्थविचाराणां जननी अस्ति ?
उत्तर-(१) व्यायामः।
(२) स्वस्था बुद्धिः स्वस्थ शरीरे वसति।
(३) व्यायामशील: मनुष्यः एव नीरोगः।
(४) विविधरोगाणां चिकित्सा व्यायामेन सम्भवति ।
(५) स्वस्था बुद्धि एव स्वस्थविचाराणां जननी अस्ति।
७. भारतस्य उत्तरायां दिशि महोन्नतः पर्वतराजः हिमालयः वर्तते। य: उत्तरदिशि प्रहरी इव रक्षति। हिमालयः भारतदेशस्य समृद्धः भूभागः अस्ति। अस्मात् पर्वतात् नद्यः निस्सरन्ति देशस्य विशालं भूभागं सिञ्चन्ति च।
(१) अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
(२) भारतस्य उत्तरायां दिशि कः वर्तते ?
(३) प्रहरी इव भारतं कः रक्षति ?
(४) भारतदेशस्य समृद्धः भूभागः कः अस्ति ?
(५) ‘हिमालयः’ इति पदस्य सन्धिविच्छेदं कृत्वा सन्धिनाम लिखत।
उत्तर-(१) पर्वतराजः हिमालयः।
(२) भारतस्य उत्तरायां दिशि महोन्नतः पर्वतराजः हिमालयः वर्तते।
(३) प्रहरी इव भारतं हिमालय: रक्षति।
(४) भारतदेशस्य समृद्धः भूभाग: हिमालयः अस्ति।
(५) हिम + आलयः, दीर्घ सन्धिः।
Leave a Reply