MP Board Class 10th Sanskrit पत्रलेखन प्रकरण imp questions (संस्कृत)

अध्याय  8

 

पत्रलेखन प्रकरण

१. अवकाशार्थं प्रार्थनापत्रम्

(अवकाश के लिए प्रार्थना-पत्र)

सेवायाम्

माननीयः प्राचार्यमहोदयः,

शासकीय उच्चतर-माध्यमिक विद्यालयः,

उज्जैननगरम्, मध्यप्रदेश:

 

विषय:-अवकाशार्थं प्रार्थनापत्रम्

 

महोदय,

सविनयं निवेदनम् अस्ति यद् अहम् अद्य सहसा ज्वरपीड़ितो अस्मि। अतः विद्यालयम् आगन्तुम् असमर्थो अस्मि। कृपया मम पञ्चदिवसानां (सप्तदिनाङ्कत:-एकादशदिनाङ्कपर्यन्तम्) अवकाशं स्वीकुर्वन्तु । भवदीया शिष्या

दिनाङ्कः-०७/०८/२०….

संवृद्धि:

कक्षा-दशमी ‘अ’ वर्ग:

 

२. छात्रवृत्ति-हेतुः आवेदनपत्रम्

(छात्रवृत्ति के लिए आवेदन-पत्र)

प्रतिष्टायाम्,

माननीय: प्राचार्यमहोदय:,

शासकीय-उच्चतर माध्यमिक विद्यालयः,

इन्दौरनगरम्, मध्यप्रदेश:

 

विषयः-छात्रवृत्तिनिमित्तम् आवेदनपत्रम्

 

महोदय,

सविनयं निवेदयामि यत् मम जनकस्य आर्थिकस्थितिः सम्यक् नास्ति। सः मम शिक्षार्थं प्रतिमासं शुल्कं दातुम् असमर्थः अस्ति। अतः श्रीमन्त; मा छात्रवृत्तिं दापयन्तु इति प्रार्थये।

भवता शिष्यः

दिनाङ्क: १२/७/२०….

रवि: उपाध्यायः

कक्षा-दशमी ‘स’ वर्ग:

 

३. शुभकामनापत्रम्

(शुभकामना पत्र)

प्रियवर्य कौशल महोदय,

भीण्डनगरतः

जयतु संस्कृतम्,

दिनाङ्क : २०-०७-२०….

 

आशा अस्ति भवन्तः सानन्दाः सकुशलाः सन्ति । हर्षस्य

विषयः यत् भवान् दशम कक्षायां प्रथम स्थानम्

प्राप्तवान्। अस्माकं परिवारः भवतां सेवायां सप्रेम शुभकामनां प्रेषयति, कामयते च भवतः उत्तरोत्तरं समुन्नतिम्।

धन्यवाद:

भवदीय: मित्रम्

धर्मेन्द्रः

 

४. मित्राय स्वाध्ययनस्य वर्णयन् पत्रम्

(मित्र को अपने अध्ययन के विषय में पत्र)

२८३, धौलीप्याऊक्षेत्रम्

भोपाल, मध्य प्रदेश:

दिनाङ्क २४-१०-२०….

प्रिय संजय !

सादरं नमः।

 

अधुना अस्माकं शिक्षण नियमेन आरब्धम्। अहं प्रतिदिनं प्रातः पञ्चवादनसमये उत्थाय सप्तवादनसमयपर्यन्तं स्वाध्यायं करोमि। संस्कृतविषये अहं कक्षायां प्रथमः अस्मि। अन्येषु विषयेषु अपि मम स्थितः उत्तमा अस्ति।

भावत्क:

आदिशर्मा

 

५. स्थानान्तरणप्रमाणपत्रार्थे आवेदनपत्रम्

(स्थानान्तरण प्रमाण-पत्र के लिए आवेदन-पत्र)

सेवायाम्

श्रीमन्तः प्रधानाचार्यमहोदया:

के. एच. डी. नेहरू स्मारक इण्टर कॉलेज

जबलपुरम्, मध्यप्रदेश:

 

विषयः-स्थानान्तरणप्रमाणपत्रार्थे आवेदनपत्रम्।

 

महोदयाः,

सविनयं निवेदनम् अस्ति यद् पितुः स्थानान्तरणकारणात् मम परिवार: भोपालनगरं गच्छन् अस्ति।

अतः तत्र प्रवेशार्थं मां स्थानान्तरणप्रमाणपत्रं दीयताम्।

धन्यवाद:।

दिनांङ्क १०/०७/२०……

भवदीय: शिष्यः

सार्थक: भारद्वाजः

कक्षा-दशमी ‘ब’ वर्ग:

 

६. स्वभ्रातुः जन्मदिनोत्सवस्य कृते स्वमित्राय आमन्त्रणपत्रम्

(अपने भाई के जन्मदिन के लिए अपने मित्र को आमन्त्रण-पत्र)

भोपालतः

दिनाङ्कः ०५-०२-२०….

प्रिय मित्र पार्थ!

सादरं नमः।

परमपितुः परमेश्वरस्य कृपया मम ज्येष्ठधातुः विंशतितमः जन्मदिनोत्सवः अस्यैव मासस्य पञ्चदश दिनाङ्क सम्पन्न : भविष्यति। एतस्मिन् अहं त्वां सादरं आमन्त्रयामि।

भवतः मित्रम्

अथर्वः

२०४, आनन्दलोकः, भोपाल:

Be the first to comment

Leave a Reply

Your email address will not be published.


*