अध्याय 1
परीक्षोपयोगी गद्यांशों, पद्यांशों एवं नाट्यांशों
पर आधारित प्रश्नोत्तर
१. शुचि पर्यावरणम्
(१) दुर्वहमत्र जीवितं जातं प्रकृतिरेव शरणम्।
शुचि-पर्यावरणम्॥
महानगरमध्ये चलदनिशं कालायसचक्रम्।
मनः शोषयत् तनु: पेषयत् भ्रमति सदा वक्रम्॥
दुर्दान्तैर्दशनैरमुना स्यानैव जनग्रसनम् । शुचि “
प्रश्न-(क) अत्र जीवनं कथम् ?
(ख) किम् एव शरणम् ?
(ग) कुत्र चलदनिशं कालायसचक्रम् ?
(घ) दुर्दान्तैर्दशनैरमुना स्यानैव किम् ?
(ङ) ‘दुर्दान्तैर्दशनैरमुना’ इत्यस्य सन्धिविच्छेदं कुरुत।
उत्तर- (क) अत्र जीवनं दुर्वहम्।
(ख) प्रकृतिः एव शरणम्।
(ग) महानगरे चलदनिशं कालायसचक्रम्।
(घ) दुर्दान्तैर्दशनैरमुना स्यान्नैव जनग्रसनम् ।
(ङ) दुर्दान्तैः + दशनैः + अमुना।
(२) कज्जलमलिनं धूम मुञ्चति शतशकटीयानम्।
वाष्पयानमाला संधावति वितरन्ती ध्वानम् ॥
यानानां पङ्क्तयो ह्यनन्ताः कठिन संसरणम्। शुचि”॥
प्रश्न-(क) शतशकटीयानं किं मुञ्चति ? लोक
(ख) का संधावति?
(ग) वाष्पयानमाला कथं संधावति ?
(घ) संसरणं कथम्?
(ङ) ‘ह्यनन्ताः’ इत्यस्य पदस्य सन्धिविच्छेदं कुरुत।
उत्तर-(क) शतशकटीयानं कज्जलमलिनं धूमं मुञ्चति।
(ख) वाष्पयानमाला संधावति।
(ग) वाष्पयानमाला ध्वानं वितरन्ती संधावति।
(घ) संसरणं कठिनम्।
(ङ) हि + अनन्ताः।
(३) प्रस्तरतले लतातरुगुल्मा नो भवन्तु पिष्टाः।
पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा।
मानवाय जीवनं कामये नो जीवन्मरणम् । शुचि ॥
प्रश्न-(क) प्रस्तरतले का नो भवन्तु पिष्टाः?
(ख) का सभ्यता निसर्गे स्यान्न समाविष्टा?
(ग) मानवाय किं कामये?
(घ) कुत्र लतातरुगुल्मा नो पिष्टा: भवन्तु ?
(ङ)’भवन्तु’ इत्यस्य धातुं लकार पुरुषं वचनं च लिखत।
उत्तर- (क) प्रस्तरतले लतातरुगुल्मा नो भवन्तु पिष्टाः ।
(ख) पाषाणी सध्यता निसर्गे स्यान्न समाविष्टा।
(ग) मानवाय जीवनं कामये।
(घ) प्रस्तरतले लतातरुगुल्मा नो पिष्टा: भवन्तु ।
(ङ) ‘भू’ धातुः लोट्लकारः प्रथमपुरुषं बहुवचनं च।
२. बुद्धिर्बलवती सदा
(१) अस्ति देउलाख्यो ग्रामः। तत्र राजसिंह: नाम राजपुत्रः वसति स्म। एकदा केनापि
आवश्यककार्येण तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता। मार्गे गहनकानने सा एकं व्यानं
ददर्श । सा व्याघ्रमागच्छन्तं दृष्ट्वा धाष्ात् पुत्रौ चपेटया प्रहत्य जगाद-“कथमेकैकशो व्याघ्रभक्षणाय
कलहं कुरुथः ? अयमेकस्तावद्विभज्य भुज्यताम्। पश्चाद् अन्यो द्वितीयः कश्चिल्लक्ष्यते।”
प्रश्न-(क) देउलाख्यो ग्रामः को वसति स्म?
(ख) तस्य भार्या का आसीत् ?
(ग) सा कंददर्श ?
(घ) सा किं जगाद?
(ङ) ‘राजपुत्रः’ इत्यस्य समासविग्रहं कुरुत।
उत्तर- (क) देउलाख्यो ग्राम: राजसिंह नाम राजपुत्र: वसति स्म।
(ख) तस्य भार्या बुद्धिमती आसीत् ।
(ग) सा एक व्याघ्रं ददर्श।
(घ) “कथमेकैकशो व्याघ्रभक्षणय कलहं कुरुथः” इति सा जगाद (ङ) ‘राज्ञः पुत्रः’।
(२) इति श्रुत्वा व्याघ्रमारी काचिदियमिति मत्वा व्याघ्रो भयाकुलचित्तो नष्टः ।
निजबुद्ध्या विमुक्ता सा भयाद् व्याघ्रस्य भामिनी।
अन्योऽपि बुद्धिमाल्लोके मुच्यते महतो भयात् ।।
भयाकुलं व्याघ्रं दृष्ट्वा कश्चित् धूर्तः शृगालः हसन्नाह-“भवान् कुतः भयात् पलायितः ?”
प्रश्न-(क) व्याघ्रो कथं नष्टः ?
(ख) सा भामिनी व्याघ्रस्य भयाद् कथं विमुक्ता?
(ग) भयाकुलं व्याघ्रं दृष्ट्वा कः हसन्नाह ?
(घ) शृगालः किम् आह ?
(ङ) ‘अन्योऽपि’ इत्यस्य पदस्य सन्धि-विच्छेदं कुरुत।
उत्तर-(क) व्याघ्रो भयाकुलचित्तो नष्टः।
(ख) सा भामिनी व्याघ्रस्य भयाद् निजबुद्ध्या विमुक्ता।
(ग) भयाकुलं व्याघ्रं दृष्ट्वा कश्चित् धूर्तः शृगालः आह।
(घ) शृगाल: आह-“भवान् कुत: भयात् पलायितः?
(ङ) ‘अन्यो + अपि’।
३. व्यायामः सर्वदा पथ्यः
(१) शरीरायासजननं कर्म व्यायामसंज्ञितम्।
तत्कृत्वा तु सुखं देहं विमृद्नीयात् समन्ततः॥
प्रश्न-(क) शरीरायासजननं कर्म किं संज्ञितम् ?
(ख) किं कर्म व्यायामसंज्ञितम् ?
(ग) तत्कृत्वा सुखं देहं किं कुर्यात् ?
(घ) कीदृशं देहं विमृदनीयात् ?
(ङ) ‘कृत्वा’ इत्यस्य पदस्य प्रकृति-प्रत्ययं च पृथक् कुरुत।
उत्तर- (क) शरीरायासजननं कर्म व्यायामसंज्ञितम्।
(ख) शरीरायासजननं कर्म व्यायामसंज्ञितम्।
(ग) तत्कृत्वा सुखं देहं समन्ततः विमृद्नीयात् ।
(घ) तत्कृत्वा सुखं देहं विमृदनीयात्।
(ङ) ‘कृ’ धातुः क्त्वा च प्रत्ययः ।
(२) न चास्ति सदृशं तेन किञ्चित्स्थौल्यापकर्षणम्।
न च व्यायामिनं मर्त्यमर्दयन्त्यरयो बलात्।।
प्रश्न-(क) स्थौल्यापकर्षणं किं भवति?
(ख) केन सदृशं किञ्चित्स्थौल्यापकर्षणं न चास्ति ?
(ग) नच कं मर्त्यमर्दयन्त्यरयोः बलात् ?
(घ) न च व्यायामिनं मत्यमर्दयन्त्यरयो कस्मात् ?
(ङ) ‘मर्त्यमर्दयन्त्यरयो’ इत्यस्य पदस्य सन्धि-विच्छेदं कुरुत।
उत्तर-(क) स्थौल्यापकर्षणं व्यायाम भवति ।
(ख) व्यायामेन सदृशं किञ्चित्स्थौल्यापकर्षणं न चास्ति।
(ग) न च व्यायामिनं मयंमर्दयन्त्यरयो बलात्।
(घ) न च व्यायामिनं मर्त्यमर्दयन्त्यरयो बलात्।
(ङ) मर्त्यम् + अर्दयन्ति + अरयः।
(३) व्यायामो हि सदा पथ्यो बलिनां स्निग्धभोजिनाम्।
स च शीते वसन्ते च तेषां पध्यतमः स्मृतः ।।
प्रश्न-(क) कः सदा पथ्यः?
(ख) व्यायामो हि सदा कथं बलिनाम् ?
(ग) स्निग्धभोजिनां कः सदा पथ्यः ?
(घ) व्यायामः कदा तेषां पथ्यतमः स्मृतः ?
(ङ) ‘स्मृतः’ इत्यस्मिन् पदे प्रकृति-प्रत्ययं पृथक् कुरुत।
उत्तर–(क) व्यायामो हि सदा पथ्यः।
(ख) व्यायामो हि सदा पथ्यो बलिनाम्।
(ग) स्निग्धभोजिनां व्यायामो हि सदा पथ्यः।
(घ) व्यायामः शीते वसन्ते च तेषां पथ्यतमः स्मृतः।
(ङ) ‘स्मृ’ धातुः ‘क्त’ प्रत्यय: च।
४. शिशुलालनम्
पाठ्यक्रम में से हटा दिया गया है।
विशेष : कोविड परिस्थितियों के चलते यह अध्याय वार्षिक बोर्ड परीक्षा 2022 के लिए बोर्ड द्वारा
(१) (सिंहासनस्थः रामः। ततः प्रविशतः विदूशकेनोपदिश्यमानमार्गी तापसौ कुशलवी)
विदूषकः-इत इत आयौँ !
कुशलवी-(रामम् उपसृत्य प्रणम्य च) अपि कुशलं महाराजस्य ?
रामः-युष्मदर्शनात् कुशलमिव। भवतोः किं वयमत्र कुशलप्रश्नस्य भाजनम् एब, न l
पुनरतिथिजनसमुचितस्य कण्ठाश्लेषस्य। (परिष्वज्य) अहो हृदयग्राही स्पर्शः।
(आसनार्धमुपवेशयति)
उभौ-राजासनं खल्वेतत्, न युक्तमध्यासितुम्।
रामः-सव्यवधानं च चारित्रलोपाय। तस्मादङ्क-व्यवहतिमध्यास्यतां सिंहासनम्।
(अङ्कमुपवेशयति)
प्रश्न-(क) ततः कौ प्रविशतः?
(ख) अहो कथं स्पर्शः?
(ग) राजासनं खल्वेतत् किं न युक्तम् ?
(घ) तस्मादङ्क-व्यवहतिमध्यास्यतां कुत्र ?
(ङ) ‘प्रणम्य इत्यस्य पदस्य प्रकृति-प्रत्ययं पृथक् कुरुत।
उत्तर-(क) तत: तापसौ कुशलवौ प्रविशतः।
(ख) अहो हृदयग्राही स्पर्शः।
(ग) राजासनं खल्वेतत् न युक्तमध्यासितुम्।
(घ) तस्मादङ्क-व्यवहतिमध्यास्यतां सिंहासनम्।
(ङ) प्र + नम्. ल्यप्।
(२) लव:-भगवन् सहस्रदीधितिः।
रामः-कथमस्मत्समानाभिजनौ संवृत्तौ ?
विदूषकः-किं द्वयोरप्येकमेव प्रतिवचनम् ?
लव-भ्रातरावावां सोदयौं।
रामः-समरूपः शरीरसन्निवेशः। वयसस्तु न किञ्चिदन्तरम्।
लव:-आवां यमलो।
रामः-सम्प्रति युज्यते। किं नामधेयम् ?
वन्दनायाम्…………
लव:-आर्यस्य वन्दनायां लव इत्यात्मानं श्रावयामि (कुशं निर्दिश्य) आर्योऽपि गुरुचरण-
कुश:-अहमपि कुश इत्यात्मानं श्रावयामि।
प्रश्न-(क) को आवां सोदयौँ ?
(ख) कथं शरीरसन्निवेशः?
(ग) लव:-आवां कौ?
(घ) रामः-सम्प्रति किम् ?
(ङ) ‘भ्रातरावावाम्’ इत्यस्य पदस्य सन्धि-विच्छेदं कुरुत।
उत्तर-(क) भ्रातरौ आवां सोदयौं।
(ख) समरूपः शरीरसन्निवेश:।
(ग) लव:-आवां यमलौ।
(घ) राम:-सम्प्रति युज्यते।
(ङ) भ्रातरौ + आवाम्।
(३) उभौ-राजन् ! उपाध्यायदूतोऽस्मान् त्वरयति।
रामः-मयापि सम्माननीय एव मुनिनियोगः। तथाहि-
भवन्तौ गायन्तौ कविरपि पुराणो व्रतनिधिर
गिरां सन्दर्भोऽयं प्रथममवतीर्णो वसुमतीम्।
कथा चेयं श्लाघ्या सरसिरुहनाभस्य नियतं,
पुनाति श्रोतारं रमयति च सोऽयं परिकरः॥
वयस्य ! अपूर्वोऽयं मानवानां सरस्वत्यवतारः, तदहं सुहज्जनसाधारण श्रोतुमिच्छामि। सन्निधीयन्तां सभासदः, प्रेष्यतामस्मदन्तिक सौमित्रिः, अहमप्येतयोश्चिरासनपरिखेदं विहरणं कृत्वा अपनयामि।
(इति निष्क्रान्ताः सर्वे)
प्रश्न-(क) को अस्मान् त्वरयति ?
(ख) अयं परिकरः नियतं कं पुनाति रमयति च ?
(ग) अपूर्वोऽयं केषां सरस्वत्यवतारः ?
(घ) केनापि सम्माननीय एव मुनिनियोगः?
(ङ) ‘श्रोतुम्’ इत्यस्य पदस्य प्रकृति प्रत्ययं पृथक् कुरुत।
उत्तर-(क) उपाध्यादूतोऽस्मान् त्वरयति ।
(ख) अयं परिकर: नियतं श्रोतारं पुनाति रमयति च।
(ग) अपूर्वोऽयं मानवानां सरस्वत्यवतारः।
(घ) मयापि सम्माननीय एव मुनिनियोगः ।
(ङ) श्रु+तुमन्।
५. जननी तुल्यवत्सला
(१) कश्चित् कृषक बलीवर्दाभ्यां क्षेत्रकर्षणं कुर्वन्नासीत्। तयोः बलीवर्दयोः एकः शरीरेण दुर्बलः जवेन गन्तुमशक्तश्चासीत्। अत: कृषकः तं दुर्बलं वृषभं तोदनेन नुद्यमानः अवर्तत। सः ऋषभः हलमूदवा गन्तुमशक्तः क्षेत्रे पपात । क्रुद्धः कृशीवल: तमुत्थापयितुं बहुवारम् यत्नमकरोत्। तथापि वृषः नोत्थितः । भूमौ पतिते स्वपुत्रं दृष्ट्वा सर्वधेनूनां मातुः सुरभेः नेत्राभ्यामभूणि आविरासन्। सुरभेरिमामवस्था दृष्ट्वा सुराधिपः तामपृच्छत्-“अयि शुभे ! किमेवं रोदिषि ? उच्यताम्” इति। सा च
विनिपातो न वः कश्चिद् दृश्यते त्रिदशाधिप।
अहं तु पुत्रं शोचामि, तेन रोदिमि कौशिक॥
प्रश्न-(क) कृषकः काभ्यां क्षेत्रकर्षणं कुर्वन्नासीत् ?
(ख) तयोः बलीवर्दयोः एकः कीदृशः आसीत् ?
(ग) मातुः सुरभे: नेत्राभ्यां कानि आविरासन् ?
(घ) अहं तु कं शोचामि?
(ङ) ‘अकरोत्’ इत्यस्य पदस्य धातु लकारं पुरुषं वचनञ्च लिखत ।
उत्तर- (क) कृषक: बलीवाभ्यां क्षेत्रकर्षणं कुर्वन्नासीत्।
(ख) तयोः बलीवर्दयोः एकः शरीरेण दुर्बल: जवेन गन्तुमशक्तश्चासीत्।
(ग) मातुः सुरभे: नेत्राभ्याम् अश्रूणि आविरासन्।
(घ) अहं तु पुत्रं शोचामि।
(ङ) ‘कृ’ धातुः, लङ् लकारः, प्रथमपुरुष: एकवचनञ्च ।
(२) “बहून्यपत्यानि मे सन्तीति सत्यम्। तथाप्यहमेतस्मिन् पुत्रे विशिष्य आत्मवेदनामनुभवामि। यतो हि अयमन्येभ्यो दुर्बलः। सर्वेष्वपत्येषु जननी तुल्यवत्सला एव। तथापि दुर्बले सुते मातुः अभ्यधिका कृपा सहजैव” इति। सुरभिवचनं श्रुत्वा भृशं विस्मितस्याखण्डलस्यापि हृदयमद्रवत्। स च तामेवमसान्त्वयत्-“गच्छ वत्से ! सर्व भद्रं जायेत।”
अचिरादेव चण्डवातेन मेघरवैश्च सहप्रवर्षः समजायत । लोकानां पश्यताम् एव सर्वत्र जलोपप्लव: सञ्जातः । कृषक हर्षातिरेकेण कर्षणाविमुखः सन् वृषभौ नीत्वा गृहमगात्।
अपत्येषु च सर्वेषु जननी तुल्यवत्सला।
पुत्रे दीने तु सा माता कृपार्दहृदया भवेत्॥
प्रश्न-(क) सर्वेष्वपत्येषु जननी कीदृशी ?
(ख) कीदृशे सुते मातुः अभ्यधिका कृपा सहजैव ?
(ग) सुरभिवचनं श्रुत्वा भृशं कस्य हृदयमद्रवत् ?
(घ) सर्वत्र कः सञ्जातः ?
(ङ) ‘सर्वेष्वपत्येषु’ इत्यस्य पदस्य सन्धि-विच्छेदं कुरुत।
उत्तर-(क) सर्वेष्वपत्येषु जननी तुल्यवत्सला एव।
(ख) दुर्बले सुते मातुः अभ्यधिका कृपा सहजैव।
(ग) सुरभिवनं श्रुत्वा भृशं विस्मितस्याखण्डलस्यापि हृदयमद्रवत् ।
(घ) सर्वत्र जलोपप्लव: सञ्जातः ।
(ङ) सर्वेषु + अपत्येषु।
६. सुभाषितानि
(१) आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति॥
प्रश्न-(क) किं मनुष्याणां शरीरस्थो महान् रिपुः ?
(ख) आलस्यं हि केषां शरीरस्थो महान् रिपुः ?
(ग) कस्य समो बन्धुः नास्ति ?
(घ) कृत्वा यं कथम् ?
(ङ) ‘कृत्वा’ इत्यस्य प्रकृतिं प्रत्ययं च पृथक् कुरुत।
उत्तर- (क) आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।
(ख) आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।
(ग) उद्यमसमो बन्धुः नास्ति।
(घ) कृत्वा यं नावसीदति।
(ङ) ‘कृ’ धातुः क्त्वा’ प्रत्ययः।
(२) गुणी गुणं वेत्ति न वेत्ति निर्गुणो,
बली बलं वेत्ति न वेत्ति निर्बलः।
पिको वसन्तस्य गुणं न वायसः,
करी च सिंहस्य बलंन मूषकः।
प्रश्न-(क) कः गुणं वेत्ति?
(ख) बलं कः न वेत्ति?
(ग) कः वसन्तस्य गुणं वेत्ति कः न वेत्ति ?
(घ) सिंहस्य बलं कः वेत्ति कः न वेत्ति?
उत्तर-(क) गुणी गुणं वेत्ति।
‘कोकिलः’ इत्यस्य पर्यायवाची शब्दम् अत्र किं प्रयुक्तम्।
(ख) बलं निर्बलं न वेत्ति।
(ग) पिक: वसन्तस्य गुणं वेत्ति वायसः न वेत्ति।
(घ) सिंहस्य बलं करी वेत्ति मूषक: न वेत्ति।
(ङ) पिकः।
(३) मृगा मृगैः सङ्गमनुव्रजन्ति
गावश्च गोभिः तुरगास्तुरङ्गैः।
मूर्खाश्च मूखैः सुधिय: सुधीभिः,
समान-शील-व्यसनेषु सख्यम्॥
प्रश्न-(क) मृगा: कैः सङ्गम् अनुव्रजन्ति ?
(ख) के गोभिः सङ्गमनुव्रजन्ति ?
(ग) मूर्खाः सुधियः च काभ्यां सङ्गम् अनुव्रजन्ति ?
(घ) केषु सख्यम् ?
(ङ) ‘तुरगास्तुरङ्गैः’ इत्यस्य पदस्य सन्धि-विच्छेदं कुरुत।
उत्तर- (क) मृगाः मृगैः सङ्गम् अनुव्रजन्ति ।
(ख) गाव: गोभिः सङ्गमनुव्रजन्ति ।
(ग) मूर्खा: सुधियः मूर्ख: सुधीभिः च सङ्गम् अनुव्रजन्ति।
(घ) समान-शील-व्यसनेषु सख्यम्।
(ङ) तुरगा: + तुरङ्गैः।
(४) अमन्त्रमक्षरं नास्ति, नास्ति मूलमनौषधम्।
अयोग्यः पुरुषः नास्ति योजकस्तत्र दुर्लभः ।।
प्रश्न-(क) अमन्त्रं किं नास्ति?
(ख) अनौषधं किं नास्ति?
(ग) पुरुषः कथं नास्ति?
(घ) तत्र कः दुर्लभः?
(ङ) ‘सुलभः’ इत्यस्य विपरीतार्थम् अत्र किं पदं प्रयुक्तम् ?
उत्तर-(क) अमन्त्रम् अक्षरं नास्ति।
(ख) अनौषधं मूलं नास्ति।
(ग) पुरुषः अयोग्य: नास्ति।
(घ) तत्र योजक: दुर्लभः।
(ङ) दुर्लभः।
(५) विचित्रे खलु संसारे नास्ति किञ्चिन्निरर्थकम्।
अश्वश्चेद् धावने वीर: भारस्य वहने खरः।
प्रश्न-(क) कुत्र किञ्चिन्निरर्थकं नास्ति ?
(ख) विचित्रे खलु संसारे किं नास्ति ?
(ग) कः धावने वीर: अस्ति?
(घ) खरः कुत्र वीरः भवति ?
(ङ) ‘सार्थकम्’ इत्यस्य विलोमपदम् अत्र किं प्रयुक्तम् ?
उत्तर- (क) विचित्रे खलु संसारे किञ्चिन्निरर्थकं नास्ति।
(ख) विचित्रे खलु संसारे किञ्चिन्निरर्थकं नास्ति।
(ग) अश्व: धावने वीरः अस्ति।
(घ) खर: भारस्य वहने वीर: भवति।
(ङ) निरर्थकम्।
(६) उदीरितोऽर्थः पशुनापि गृह्यते,
हयाश्च नागाश्च वहन्ति बोधिताः।
अनुक्तमप्यूहति पण्डितो जनः,
परेङ्गितज्ञानफला हि बुद्धयः॥
प्रश्न-(क) उदीरितोऽर्थः केनापि गृह्यते ?
(ख) के बोधिता: वहन्ति ?
(ग) अनुक्तमप्यूहति कः?
(घ) परेङ्गितज्ञानफला हि काः?
(ङ) ‘उदीरितोऽर्थः’ इत्यस्य सन्धिविच्छेदं कुरुत।
उत्तर-(क) उदीरितोऽर्थः पशुनापि गृह्यते।
(ख) हयाश्च नागाश्च बोधिता: वहन्ति ।
(ग) अनुक्तमप्यूहति पण्डितो जनः।
(घ) परेङ्गितज्ञानफला हि बुद्धयः।
(ङ) उदीरितः + अर्थ:।
।
७. सौहार्द प्रकृतेः शोभा
(१) वनस्य दृश्यं समीपे एवैका नदी वहति। एकः सिंहः सुखेन विश्राम्यते तदैव एकः वानरः आगत्य तस्य पुच्छ धुनाति। क्रुद्धः सिंहः तं प्रहर्तुमिच्छति परं वानरस्तु कूर्दित्वा वृक्षमारूढः । तदैव अन्यस्मात् वृक्षात् अपर: वानरः सिंहस्य कर्णमाकृष्य पुनः वृक्षोपरि आरोहति । एवमेव वानराः वारं वारं सिंहं तुदन्ति । क्रुद्धः सिंहः इतस्ततः धावति, गर्जति परं किमपि कर्तुमसमर्थः एवं तिष्ठति। वानराः हसन्ति वृक्षोपरि च विविधाः पक्षिण: अपि सिंहस्य एतादृशीं दशां दृष्ट्वा हर्षमिश्रितं कलरवं कुर्वन्ति।
प्रश्न-(क) कः सुखेन विश्राम्यते ?
(ख) कः आगत्य सिंहस्य पुच्छं धुनाति ?
(ग) क्रुद्धः सिंहः किं करोति?
(घ) वनस्य समीपे का वहति ?
(ङ) ‘वृक्षोपरि’ इत्यस्य पदस्य समासविग्रहं कुरुत।
उत्तर-(क) एक: सिंहः सुखेन विश्राम्यते।
(ख) एक: वानरः आगत्य सिंहस्य पुच्छं धुनाति।
(ग) क्रुद्धः सिंह: इतस्तत: धावति गर्जति च।
(घ) वनस्य समीपे एवैका नदी वहति।
(ङ) वृक्षस्य उपरि।
(२) पिक:- अलम् अलम् अतिविकत्थनेन। किं विस्मयते यत्-
काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयो।
वसन्तसमये प्राप्ते काकः काकः पिकः पिकः॥
काकः-रे परभृत् ! अहं यदि तव संततिं न पालयामि तर्हि कुत्र स्युः पिकाः ? अतः अहम् एव करुणापर: पक्षिसम्राट् काकः।
गजः- समीपत: एवागच्छन् अरे ! अरे ! सर्व सम्भाषणं शृण्वन्नेवाहम् अत्रागच्छम्। अहं विशालकायः, बलशाली, पराक्रमी च। सिंह: वा स्यात् अथवा अन्यः कोऽपि, वन्यपशून् तु तुदन्तं जन्तुमहं स्वशुण्डेन पोथयित्वा मारयिष्यामि। किमन्यः कोऽप्यस्ति एतादृशः पराक्रमी। अत: अहमेव योग्य: वनराजपदाय।
प्रश्न-(क) काकः कीदृशः पिकः कीदृशः?
(ख) कदा काकः काकः पिकः पिकः?
(ग) अलम् अलम् केन?
(घ) ‘सर्वं सम्भाषणं शृण्वन्नेवाहम् अत्रागच्छम्’ इति कः अवदत् ?
(ङ) शृण्वन्’ इत्यस्य पदस्य प्रकृतिं प्रत्ययं च पृथक् कुरुत।
उत्तर-(क) काक: कृष्ण : पिकः कृष्णः।
(ख) वसन्तसमये प्राप्ते काकः काक: पिक: पिकः।
(ग) अलम् अलम् अतिविकत्थनेन।
(घ) ‘सर्व सम्भाषणं शृण्वन्नेवाहम् अत्रागच्छम्’ इति गजः अवदत्।
(ङ) ‘श्रु’ धातु: शत् प्रत्यय: च।
(३) काकः-(अट्टहासपूर्णेन-स्वरेण)-सर्वथा अयुक्तमेतत् यन्मयूर-हंस-कोकिल-
चक्रवाक-शुक-सारसादिषु पक्षिप्रधानेषु विद्यमानेषु दिवान्धस्यास्य करालवक्त्रस्याभिषेकार्थ सर्वे सज्जाः।
पूर्ण दिनं यावत् निद्रायमाणः एषः कथमस्मान् रक्षिष्यति। वस्तुतस्तु-
स्वभावरौद्रमत्युग्रं क्रूरमप्रियवादिनम्।
उलूकं नृपतिं कृत्वा का नु सिद्धिर्भविष्यति॥
(ततः प्रविशति प्रकृतिमाता)
प्रकृतिमाता-(सस्नेहम्) भोः भोः प्राणिनः । यूयम् सर्वे एव मे सन्ततिः। कथं मिथः कलह कुर्वन्ति।
वस्तुतः सर्वे वन्यजीविनः अन्योन्याश्रिताः। सदैव स्मरत-
ददाति प्रतिगृह्णाति, गुह्यमाख्याति पृच्छति।
भुङ्क्ते भोजयते चैव षड्-विधं प्रीतिलक्षणम्॥
(सर्वे प्राणिनः समवेतस्वरेण)
प्रश्न-(क) पूर्ण दिनं यावत् निद्रायमाणः कः कथमस्मान् रक्षिष्यति ?
(ख) उलूकं नृपतिं कृत्वा का नु का भविष्यति ?
(ग) के सर्वे एव मे सन्ततिः?
(घ) वस्तुतः के अन्योन्याश्रिताः?
(ङ) ‘कृत्वा’ इत्यस्य प्रकृति प्रत्ययं च पृथक कुरुत।
उत्तर-(क) पूर्ण दिनं यावत् निद्रायमानः उलूकः कथमस्मान् रक्षिष्यति।
(ख) उलूकं नृपतिं कृत्वा का नु सिद्धिः भविष्यति।
(ग) यूयम् सर्वे एव में सन्ततिः।
(घ) वस्तुत: सर्वे वन्यजीविनः अन्योन्याश्रिताः।
(ङ) ‘कृ’ धातुः क्त्वा’ प्रत्यय: च।
(
४) प्रकृतिमाता-अहं प्रकृतिः युष्माकं सर्वेषां जननी ? यूयं सर्वे एव मे प्रियाः । सर्वेषामेव मत्कृते
महत्त्वं विद्यते यथासमयम् न तावत् कलहेन समयं वृथा यापयन्तु अपितु मिलित्वा एव मोदध्वं जीवनं च
रसमयं कुरुध्वम्। तद्यथा कथितम-
प्रजासुखे सुखं राज्ञः, प्रजानां च हिते हितम्।
नात्मप्रियं हितं राज्ञः, प्रजानां तु प्रियं हितम्॥
अपि च-
अगाधजलसञ्चारी न गवं याति रोहितः।
अङ्गुष्ठोदकमात्रेण शफरी फुफुरायते ॥
अत: भवन्तः सर्वेऽपि शफरीवत् एकैकस्य गुणस्य चर्चा विहाय, मिलित्वा प्रकृतिसौन्दर्याय वनरक्षायै
च प्रयतन्ताम्।
प्रश्न-(क) अहं प्रकृतिः केषां जननी ?
(ख) राज्ञः सुखं कस्मिन् ?
(ग) कस्य प्रजानां हिते हितम् ?
(घ) अगाधजलसञ्चारी न गर्व याति कः?
(ङ) ‘युष्माकम्’ इत्यस्य पदस्य मूलशब्दं विभक्तिं वचनञ्च लिखत।
उत्तर-(क) अहं प्रकृति: युष्माकं सर्वेषां जननी।
(ख) राज्ञः सुखं प्रजासुखे।
(ग) राज्ञः प्रजानां हिते हितम्।
(घ) अगाधजलसञ्चारी न गवं याति रोहितः।
(ङ) ‘युष्मद्’ शब्दः षष्ठीविभक्ति: बहुवचनम् च।
८. विचित्रः साक्षी
(१) कश्चन निर्धनो जनः भूरि परिश्रम्य किञ्चिद् वित्तमुपार्जितवान्। तेन वित्तेन स्वपुत्रम् एकस्मिन्
महाविद्यालये प्रवेशं दापयितुं सफलो जातः । तत्तनयः तत्रैव छात्रावासे निवसन् अध्ययने संलग्नः समभूत्।
एकदा स पिता तनूजस्य रुग्णतामाकर्ण्य व्याकुलो जातः पुत्रं द्रष्टुं च प्रस्थितः। परमर्थकार्येन पीडितः
स बसयानं विहाय पदातिरेव प्राचलत्।
पदातिक्रमेण संचलन् सायं समयेऽप्यसौ गन्तव्याद् दूरे आसीत्। ‘निशान्धकारे प्रसृते विजने प्रदेशे पदयात्रा न शुभावहा’, एवं विचार्य स पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्तुं कञ्चिद् गृहस्थमुपागतः करुणापरो गृहीं तस्मै आश्रयं प्रायच्छत्।
प्रश्न-(क) कः भूरि परिश्रम्य किञ्चिद् वित्तमुपार्जितवान् ?
(ख) तेन कथं कुत्र च स्वपुत्रं प्रवेशं दापयितुं सफलो जातः ।
(ग) एकदा स पिता कथं व्याकुलो जातः ?
(घ) किमर्थं स बसयानं विहाय पदातिरेव प्राचलत् ?
(ङ) ‘विहाय’ इत्यस्मिन् पदे प्रकृति प्रत्ययं च पृथक्कुरुत।
उत्तर-(क) कश्चन निर्धनो जनः भूरि परिश्रम्य किञ्चिद् वित्तमुपार्जितवान् ।
(ख) तेन वित्तेन स्वपुत्रम् एकस्मिन् महाविद्यालये प्रवेशं दापयितुं सफलो जातः।
(ग) एकदा स पिता तनूजस्य रुग्णतामाकर्ण्य व्याकुलो जातः ।
(घ) परमर्थकार्येन पीडित: स बसयानं विहाय पदातिरेव प्राचलत्।
(ङ) वि + हा + ल्यप्।
(२) विचित्रा दैवगतिः । तस्यामेव रात्रौ तस्मिन् गृहे कश्चन चौरः गृहाभ्यन्तरं प्रविष्टः। तत्र निहितामेकां मञ्जूषाम् आदाय पलायितः। चौरस्य पादध्वनिना प्रबुद्धोऽतिथि: चौरशङ्कया तमन्वधावत् अगृह्णाच्च, परं विचित्रमघटत । चौर: एव उच्चैः क्रोशितुमारभत “चौरोऽयं चौरोऽयम्” इति। तस्य तारस्वरेण
प्रबुद्धाः ग्रामवासिनः स्वगृहाद् निष्क्रम्य तत्रागच्छन् वराकमतिथिमेव च चौरं मत्वाऽभर्त्सयन्। यद्यपि ग्रामस्य
आरक्षी एव चौर आसीत्। तत्क्षणमेव रक्षापुरुषः तम् अतिथिं चौरोऽयम् इति प्रख्याप्य कारागृहे प्राक्षिपत्।
प्रश्न-(क) विचित्रा कः ?
(ख) तस्मिन् गृहे कः प्रविष्टः?
(ग) चौरः काम् आदाय पलायित: ?
(घ) चौरस्य पादध्वनिना कः प्रबुद्धः अभवत् ?
(ङ) ‘चौरोऽयम्’ इत्यस्य पदस्य सन्धि-विच्छेदं कुरुत।
उत्तर- (क) विचित्रा दैवगतिः।
(ख) तस्मिन् गृहे कश्चन चौरः प्रविष्टः।
(ग) चौर: तत्र निहितामेकां मञ्जूषाम् आदाय पलायितः।
(घ) चौरस्य पादध्वनिना अतिथिः प्रबुद्धः अभवत् ।
(ङ) ‘चौर: + अयम्।
(३) न्यायाधीशेन पुनस्तौ घटनायाः विषये वक्तुमादिष्टौ। आरक्षिणि निजपक्षं प्रस्तुतवति आश्चर्यमघटत् स शवः प्रावारकमपसार्य न्यायाधीशमभिवाद्य निवेदितवान्-मान्यवर ! एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि त्वयाऽहं चोरितायाः मञ्जूषायाः ग्रहणाद् वारितः, अतः निजकृत्यस्य फलं
भुक्ष्व। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे’ इति।
न्यायाधीशः आरक्षिणे कारादण्डमादिश्य तं जनं ससम्मानं मुक्तवान्।
अत एवोच्यते-दुष्कराण्यपि कर्माणि मतिवैभवशालिनः।
नीतिं युक्तिं समालम्व्य लीलयैव प्रकुर्वते॥
प्रश्न-(क) केन पुनस्तौ घटनायाः विषये वक्तुमादिष्टौ।
(ख) का प्रावारकमपसार्य न्यायाधीशमभिवाद्य निवेदितवान्।
(ग) त्वं किं लप्स्यसे?
(घ) नीतिं युक्तिं समालम्ब्य कया एव प्रकुर्वते ?
(ङ) ‘दुष्कराण्यपि’ इत्यस्य पदस्य सन्धि-विच्छेदं कुरुत।
उत्तर- (क) न्यायाधीशेन पुनस्ती घटनायाः विषये वक्तुमादिष्टौ ।
(ख) स शवः प्रावारकमपसार्य न्यायाधीशमभिवाद्य निवेदितवान्।
(ग) त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे।
(घ) नीतिं युक्तं समालम्ब्य लीलयैव प्रकुर्वते।
(ङ) दुष्कराणि + अपि।
९. सूक्तयः
(१) पिता यच्छति पुत्राय बाल्ये विद्याधनं महत् ।
पिताऽस्य किं तपस्तेपे इत्युक्तिस्तकृतज्ञता।
प्रश्न-(क) कः बाल्ये पुत्राय महत् विद्याधनं यच्छति ?
(ख) पिता कस्मै बाल्ये महत् विद्याधनं यच्छति ?
(ग) का उक्तिस्तत्कृतज्ञता ?
(घ) पिताऽस्य किं तपस्तेपे इत्युक्तिः का?
(ङ) ‘इत्युक्तिस्तत्कृतज्ञता’ इत्यस्य पदस्य सन्धि-विच्छेदं कुरुत।
उत्तर- (क) पिता बाल्ये पुत्राय महत् विद्याधनं यच्छति।
(ख) पिता पुत्राय वाल्ये महत् विद्याधनं यच्छति।
(ग) पिताऽस्य किं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता।
(घ) पिताऽस्य किं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता।
(ङ) इति + उक्तिः + तत्कृतज्ञता।p
(२) अवक्रता यथा चित्ते तथा वाचि भवेद् यदि।
तदेवाहुः महात्मानः समत्वमिति तथ्यतः॥
प्रश्न-(क) अवक्रता यथा कुत्र ?
(ख) यदि तथा कुत्र भवेत् ?
(ग) महात्मानः तदेवाहुः किम् ?
(घ) तदेवाहुः के समत्वमिति तथ्यतः?
(ङ) ‘वक्रता’ इत्यस्य विलोमपदम् अत्र किं प्रयुक्तम् ?
उत्तर-(क) अवक्रता यथा चित्ते।
(ख) यदि तथा वाचि भवेत् ।
(ग) महात्मानः तदेवाहुः समत्वमिति तथ्यतः।
(घ) तदेवाहुः महात्मानः समत्वमिति तथ्यतः।
(ङ) अवक्रता।
(३) विद्वांस एव लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः।
अन्येषां वदने ये तु ते चक्षुर्नामनी मते ॥
प्रश्न-(क) के लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः?
(ख) विद्वांस एव कुत्र चक्षुष्मन्तः प्रकीर्तिता:?
(ग) केषां वदने चक्षुर्नामनी मते?
(घ) अन्येषां कुत्र चक्षुर्नामनी मते ?
(ङ) ‘लोकेऽस्मिन्’ इत्यस्य पदस्य सन्धि-विच्छेदं कुरुत।
उत्तर- (क) विद्वांस एव लोकेस्मिन् चक्षुष्मन्तः प्रकीर्तिताः ।
(ख) विद्वांस एव लोकेस्मिन् चक्षुष्मन्तः प्रकीर्तिताः ।
(ग) अन्येषां वदने चक्षुर्नामनी मते।
(घ) अन्येषां वदने चक्षुर्नामनी मते।
(ङ) लोके + अस्मिन्।
(४) आचारः प्रथमो धर्मः इत्येतद् विदुषां वचः।
तस्माद् रक्षेत् सदाचारं प्राणेभ्योऽपि विशेषतः॥
प्रश्न-(क) कः प्रथमो धर्मः ?
(ख) आचार: प्रथमो धर्मः इत्येतद् केषां वचः ?
(ग) तस्माद् कं रक्षेत् ?
(घ) सदाचारं केभ्योऽपि विशेषतः रक्षेत् ?
(ङ) ‘रक्षेत्’ इत्यस्य पदस्य धातुंलकारं पुरुषं वचनञ्च लिखत।
उत्तर- (क) आचार: प्रथमो धर्मः।
(ख) ‘आचार: प्रथमो धर्मः’ इत्येतद् विदुषां वचः।
(ग) तस्माद् सदाचारं रक्षेत्।
(घ) सदाचारं प्राणेभ्योऽपि विशेषतः रक्षेत्।
(ङ) ‘रक्ष्’ धातुः विधिलिङ्लकार: प्रथमपुरुषः एकवचनञ्च ।
१०. भूकम्पविभीषिका
(१) एकोत्तरद्विसहस्रखीष्टाब्दे (२००१ ईस्वीये वर्षे) गणतन्त्र-दिवस-पर्वणि यदा समग्रमपि
भारतराष्ट्रं नृत्य-गीतवादित्राणाम् उल्लासे मग्नमासीत् तदाकस्मादेव गुर्जर-राज्यं पर्याकुलं, विपर्यस्तम्,
क्रन्दनविकलं विपन्नञ्च जातम्। भूकम्पस्य दारुणविभीषिका समस्तमपि गुर्जरक्षेत्र विशेषेण च कच्छजनपद
ध्वंसावशेषेषु परिवर्तितवती । भूकम्पस्य केन्द्रभूतं भुजनगरं तु मृत्तिकाक्रीडनकमिव खण्ड खण्डम् जातम्।
बहुभूमिकानि भवनानि क्षणेनैव धराशायीनि जातानि।
प्रश्न-(क) भारतराष्ट्रं कस्मिन् मग्नमासीत् ?
(ख) कस्य दारुणविभीषिका समस्तमपि गुर्जरक्षेत्रं ध्वंसावशेषेषु परावर्तितवति ।
(ग) भूकम्पस्य केन्द्रभूतं किम् आसीत् ?
(घ) कानि भवनानि क्षणेनैव धराशायीनि जातानि?
(ङ) ‘क्षणेनैव’ इत्यस्य सन्धि-विच्छेदं कुरुत।
उत्तर- (क) भारतराष्ट्रं नृत्य-गीतवादित्राणाम् उल्लासे मानमासीत्।
(ख) भूकम्पस्य दारुणविभीषिका समस्तमपि गुर्जर क्षेत्रं ध्वंसावशेषेषु परावर्तितवती।
(ग) भूकम्पस्य केन्द्रभूतं भुजनगरम् आसीत्।
(घ) बहुभूमिकानि भवनानि क्षणेनैव धराशायोनि जातानि।
(ङ) क्षणेन + एव।
(२) ज्वालामुखपर्वतानां विस्फोटैरपि भूकम्पो जायत इति कथयन्ति भूकम्पविशेषज्ञाः । पृथिव्याः गर्भ विद्यमानोऽग्निर्वदा खनिजमृत्तिकाशिलादिसञ्चयं क्वथयति तदा तत्सर्वमेव लावारसताम् उपेत्य दुर्वारगत्या धरां पर्वतं वा विदार्य बहिर्निष्कामति । धूमभस्मात्तं जायते तदा गगनम्। सेल्सियश-ताप-मात्राधा अष्टशताङ्कतामुपगतोऽयं लावारसो यदा नदीवेगेन प्रवहति तदा पावस्थग्रामा नगराणि वा तदुदरे क्षणेनैव समाविशन्ति । निहन्यन्ते च विवशा: प्राणिनः । ज्वालामुद्गिरन्त एते पर्वता अपि भीषणं भूकम्पं जनयन्ति।
प्रश्न-(क) भूकम्पः कथं जायते ?
(ख) तदा गगनं कीदृशं जायते ?
(ग) के निहन्यन्ते?
(घ) पर्वता अपि किं जनयन्ति?
(ङ) ‘विस्फोटैरपि’ इत्यस्य पदस्य सन्धि-विच्छेदं कुरुत।
उत्तर- (क) भूकम्प: ज्वालामुखपर्वतानां विस्फोटेरपि जायते।
(ख) तदा गगनं धूमभस्मावृतं जायते।
(ग) विवशा: प्राणिन: निहन्यन्ते।
(घ) पर्वता अपि भीषणं भूकम्यं जनयन्ति।
(ङ) विस्फोटै: + अपि।
११. प्राणेभ्योऽपि प्रियः सुहृद्
विशेष : कोविड परिस्थितियों के चलते यह अध्याय वार्षिक बोर्ड परीक्षा 2022 के लिए बोर्ड द्वारा
पाठ्यक्रम में से हटा दिया गया है।
(१) चाणक्यः-वत्स ! मणिकारश्रेष्ठिनं चन्दनदासमिदानीं द्रष्टुमिच्छामि।
शिष्यः-तथेति (निष्क्रम्य चन्दनदासेन सह प्रविश्य) इत: इतः श्रेष्ठिन् !
(उभौ परिकामतः)
शिष्यः-(उपसृत्य) उपाध्याय ! अयं श्रेष्ठी चन्दनदासः ।
चन्दनदास:-जयत्वार्यः।
चाणक्य:-श्रेष्ठिन् ! स्वागतं ते। अपि प्रचीयन्ते संव्यवहाराणां वृद्धिलाभाः ?
चन्दनदासः-(आत्मगतम्) अत्यादरः शङ्कनीयः । (प्रकाशम्) अथ किम्। आर्यस्य प्रसादेन
अखण्डिता मे वणिज्या।
चाणक्यः-भो श्रेष्ठिन् ! प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः ।
चन्दनदासः-आज्ञापयतु आर्यः, किं कियत् च अस्मज्जनादिष्यते इति।
प्रश्न-(क) चाणक्य:-वत्स ! के द्रष्टुमिच्छामि?
(ख) अयं कः?
(ग) किं शङ्कनीयः ?
(घ) के प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति ?
(ङ) ‘जयत्वार्यः’ इत्यस्य पदस्य सन्धि-विच्छेदं कुरुत।
उत्तर- (क) चाणक्यः-वत्स ! मणिकाश्रेष्ठिनं चन्दनदासमिदानीं द्रष्टुमिच्छामि।
(ख) अयं श्रेष्ठी चन्दनदासः।
(ग) अत्यादर; शङ्कनीयः ।
(घ) राजानः प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति।
(अ) ‘जयतु + आर्य:’
(२) चाणक्यः-भो श्रेष्ठिन् ! स चापरिक्लेशः कथमाविर्भवति इति ननु भवता प्रष्टव्याः स्मः।
चन्दनदास:-आज्ञापयतु आर्यः।
चाणक्य:-राजनि अविरुद्धवृत्तिर्भव।
चन्दनदासः-आर्य ! कः पुनरधन्यो राज्ञो विरुद्ध इति आर्येणावगम्यते?
चाणक्यः-भवानेव तावत् प्रथमम्।
चन्दनदासः-(कर्णो पिधाय) शान्तं पापम्, शान्तं पापम्। कीदृशस्तृणानामग्निना सह विरोध: ?
प्रश्न-(क) आज्ञापयतु कः?
(ख) कस्मिन् अविरुद्धवृत्तिर्भव?
(ग) कः तावत् प्रथमम् ?
(घ) केषाम् अग्निना सह विरोध: ?
(ङ) ‘भवता’ इत्यस्य पदस्य विभक्तिं वचनं लिखत।
उत्तर-(क) आज्ञापयतु आर्यः।
(ख) राजनि अविरुद्धवृत्तिर्भव।
(ग) भवानेव तावत् प्रथमम्।
(घ) तृणानामग्निना सह विरोधः।
(ङ) तृतीया विभक्तिः एकवचनम्।
१२. अन्योक्तयः
विशेष : कोविड परिस्थितियों के चलते यह अध्याय वार्षिक/बोर्ड परीक्षा 2022 के लिए बोर्ड द्वारा
पाठ्यक्रम में से हटा दिया गया है।
(१) एकेन राजहंसेन या शोभा सरसो भवेत्।
नसा बकसहस्त्रेण परितस्तीरवासिना॥
प्रश्न-(क) सरसः शोभा केन भवेत् ?
(ख) एकेन राजहंसेन कस्य शोभा भवेत् ?
(ग) नसा केन?
(घ) नसा परितस्तीरवासिना केन?
(ङ) ‘राजहंसेन’ इत्यस्य पदस्य समासविग्रहं कुरुत।
उत्तर- (क) सरस: शोभा एकेन राजहंसेन भवेत्।
(ख) एकेन राजहंसेन सरसः शोभा भवेत्।
(ग) नसा बकसहस्रेण परितस्तीरवासिना।
(घ) न सो परितस्तीरवासिना बकसहस्रण।
(ङ) ‘राज्ञः हंसः’ राजहंसः तेन।
(२) भुक्ता मृणालपटली भवता निपीता-
न्यम्बूनि यत्र नलिनानि निषेवितानि।
रे राजहंस ! वद तस्य सरोवरस्य,
कृत्येन केन भवितासि कृतोपकारः॥
प्रश्न-(क) भुक्ता का?
(ख) निपीतानि कानि?
(ग) कानि निषेवितानि?
(घ) हे राजहंस ! वद तस्य कस्य ?
(ङ) ‘कृतोपकारः’ इत्यस्य पदस्य सन्धि-विच्छेदं कुरुत।
उत्तर-(क) भुक्ता मृणालपटली।
(ख) निपीतानि अम्बूनि।
(ग) नलिनानि निषेवितानि।
(घ) हे राजहंस ! वद तस्य सरोवरस्य।
(ङ) कृत• उपकारः।
(३) आपेदिरेऽम्बरपथं परितः पतङ्गाः,
भगा रसालमुकुलानि समाश्रयन्ते।
सङ्कोचवमञ्चति सरस्त्वयि दीनदीनो,
मीनो’नु हन्त कतमा गतिमभ्युपैतु॥
प्रश्न-(क) पतङ्गाः परितः कुत्र आपेदिरे ?
(ख) के रसालमुकुलानि समाश्रयन्ते ?
(ग) कस्मिन् सङ्कोचम् अञ्चति ?
(घ) कः नुकतमा गतिमभ्युपैतु ?
(ङ) ‘मत्यः’ इत्यस्य पर्यायपदम् अत्र किं प्रयुक्तम्।
उत्तर- (क) पतङ्गाः परितः अम्बरपथम् आपेदिरे।
(ख) भृङ्गा रसालमुकुलानि समाश्रयन्ते।
(ग) त्वयि सङ्कोचम् अञ्चति।
(घ) मीनः नु कतमां गतिमभ्युपत्।
(ड) मीनः।
(४) रेरे चातक ! सावधानमनसा मित्र / क्षणं श्रूयता-
मम्भोदा बहवो हि सन्ति गगने सर्वेऽपि नैतादृशाः।
केचिद वृष्टिभिरार्द्रयन्ति वसुधां गर्जन्ति केचिद् वृथा,
यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ।
प्रश्न-(क) के बहवो हि सन्ति ?
(ख) केऽपि गगने नैतादृशाः ?
(ग) केचिद् वृष्टिभिरार्द्रयन्ति काम् ?
(घ) केचिद् कथं गर्जन्ति ?
(ङ) ‘सम्मुखे’ इत्यस्य कृते अन किं पदं प्रयुक्तम् ?
उत्तर-(क) अम्भोदा बहवो हि सन्ति।
(ख) सर्वेऽपि गगने नैतादृशाः।
(ग) केचिद् वृष्टिभिरार्द्रयन्ति वसुधाम्।
(घ) केचिद् वृथा गर्जन्ति।
(ङ) पुरतः।
Leave a Reply