अध्याय 16
निबंध (अनुच्छेद) लेखनम्
1. नैतिकशिक्षायाः महत्त्वम्
‘शिक्ष्’ विद्योपादाने इति व्युत्पत्त्या शिक्षाशब्दस्य अर्थः विद्यार्जनम् एव किन्तु केवलानि पुस्तकानि कण्ठस्थीकृत्य उपाधि प्राप्य जीविकोपार्जनम् एव शिक्षा नास्ति । जीवने सत्यम्, अहिंसा, विनम्रतानियमसाहसप्रभृतीनाम् उच्चादर्शाणाम् सम्यक् समावेशनम् एव शिक्षायाः उद्देश्यं भवति । यया शिक्षया एतादृशाणां सद्गुणानां विकास: भवति सा नैतिकशिक्षेति उच्यते । नैतिकशिक्षामाध्यमेन मानवानां मूलप्रवृत्तयः संशोध्यन्ते । नैतिकशिक्षया सङ्कीर्णानां विचाराणाम् अपनयनं भवति । उचितानुचितनिर्णयक्षमतायाः विकासोऽपि भवति । सम्प्रति लोके चौर्यहिंसाबलात्कारघृणाद्वेषादिघृणितप्रवृत्तयः अनियंत्रणीयाः सञ्जाताः। अतः अस्माभिः मूलप्रवृत्तीनां संयमनम् अवश्यं कर्त्तव्यम्। नैतिकशिक्षाबलेन एव वयं गतगौरवं पुनः प्राप्तुं शक्नुमः।
2. छात्रजीवनम्
यावत् कालो विद्याध्ययने याति तावत् विद्यार्थिन: जीवनः छात्रजीवनं उच्यते । छात्र जीवने छात्रा: विद्यायाः अध्ययनं कुर्वन्ति । यावत् विद्यां अधीयन्ते तावद् भवति छात्रकालः। छात्रा: नियम पूर्वकं स्वाध्यायं कुर्वन्ति । छात्रजीवनं सर्वथाः चिन्तारहितं भवति । एवं छात्रजीवने जीवनस्य निर्माणोभवति । छात्रजीवने छात्रा: विद्यालयं गत्वा गुरोः सकाशात् विद्यां प्राप्तनुवन्ति । छात्राः विद्यालयेषु अध्ययनेन सह अन्यमपि ज्ञानवर्धकं क्रियाकलाप कुर्वन्ति । छात्राः अस्मिन् जीवने अनेकान् श्रेष्ठ गुणान् प्राप्तुम् यतन्ते । छात्र जीवने ये अनुशासनस्य नियमान् पालयन्तः अध्ययनं कुर्वन्ति तेषां भविष्य उज्जवलं भवति । मानव जीवने अन्यकालापेक्षया अस्य कालस्य माहात्म्यं सर्वाधिकं वर्तते। जीवनस्य सफलता असफलता वा अस्यैव कालस्य उपरि निर्भरा भवति । अस्मिन्नैव समये भाविजीवनस्य कृते शक्तिञ्चयः क्रियते। अत: छात्रजीवनं सर्वथा मनोरमं श्रेयस्करं च भवति।
3. संस्कृतभाषायाः महत्वम्
संस्कृतभाषा विश्वस्य सर्वासु भाषासु प्राचीनतमा सर्वोत्तमसाहित्यसंयुक्ता चास्ति । संस्कृता परिशुद्धा व्याकरण सम्बन्धिदोषादिरहिता संस्कृतभाषेति निगद्यते। प्राचीने समये एषैव भाषा सर्वसाधारणा आसीत्। सर्वे जनाः संस्कृतभाषाम् एव वदन्तिस्म। एषा एव अस्माकं पूर्वजानाम् आर्याणां सुलभा, शोभना, गरिमामयी च वाणी। संस्कृतभाषायामेव विश्वसाहित्यस्य सर्वप्राचीनग्रन्थाः चत्वारो वेदाः सन्ति येषां महत्वमद्यापि सर्वोपरि वर्तते। भास-कालिदास-अश्वघोष-भवभूति-दण्डि-सुबन्धु-बाण-जयदेव प्रभुतयो महाकवयो नाटकाराश्च संस्कृतभाषायाः एव। जीवनस्य सर्वसंस्कारेषु संस्कृतस्य प्रयोगः भवति । अधुनाऽपि सङ्गणकस्य कृते संस्कृतभाषा अति उपयुक्ता अस्ति। संस्कृतभाषैव भारतस्य प्राणभूताभाषा अस्ति। राष्ट्रस्य ऐक्यं च साधयति । भारतीय गौरवस्य रक्षणाय एतस्याः प्रसारश्च सवैरेव कर्त्तव्यः। अत एव उच्यते – ‘संस्कृतिः संस्कृताश्रिता।’
4. कविः कालिदासः
कालिदासः भारतस्य श्रेष्ठतमः कविः। सः न केवलं भारतस्य प्रत्युत् विश्वस्य श्रेष्ठतमः कविः। अतएव स: कविकुलगुरुरिति कश्यते । तेन विरचिताः सप्त ग्रन्थाः अतीव प्रसिद्धाः। तेषु द्वे महाकाव्ये-रघुवंशम् कुमारसम्भवं च द्वे खण्डकाव्ये ऋतुसंहारं मेघदूतं च वर्तते । त्रीणि नाटकानि – मालविकाग्निमित्रं, विक्रमोर्वशीयम्, अभिज्ञानशाकुन्तलम्। एषु मेघदूतस्य शाकुन्तलस्य च प्रचारो विदेशेषु अपि अधिको वर्तते। विश्वस्य सर्वास्वपि प्रमुखासु भाषासु कालिदासस्य ग्रन्थानामनुवादाः लभ्यन्ते । कालिदासस्य नाटकानि अद्यापि न केवलं भारते प्रत्युत् विश्वस्य प्रसिद्धेषु नगरेषु अभिनीयते । कालिदासस्य जन्म कदा जातमिति न विदितम् । खीष्टाब्दस्य चतुर्थशताब्द्यां सः जातः इति बहवो मन्यते । केचित् च तं विक्रमस्य प्रथमशताब्द्यां जातं स्वीकुर्वन्ति । परं तस्य निवासो मध्यप्रदेशे
उज्जनियन्यामभवत् इति निश्चितम् । उज्जयिन्यां प्रतिवर्ष कालिदासमहोत्सवो भवति । कालिदासस्य उपमा: अतीव प्रसिद्धाः। उक्तञ्च उपमा कालिदासस्य इति । स भारतस्य अत्ति मनोरमम् वर्णनम् अकरोत् । तेन तुल्यः क्रोऽपि कविः न यद्यावधि अजायत । अतएव उक्तम् – एकोऽपि जीयते हन्त कालिदासो न केनचित्।
महर्षि वाल्मीकि विरचितम् रामायणम् लौकिक संस्कृत साहित्यस्यादि काव्यमस्ति। अत्रैव सर्वप्रथममाम्नायादन्यय नूतनश्छन्दसावतारोऽभवत्। अस्मिन्नादिकाव्ये काव्यात्मकं वर्णनमेव अस्ति। भारतीयदर्शनानाम् महान् कोशोऽप्यत्र विद्यते । एतस्मिन्हि महाकाव्ये करुणरसस्यैव प्राधान्यं वर्तते । आदिकवैः क्रौम्चवधवियोगोत्पन्नश्शोक एव तस्य कलकण्ठात् श्लोकरूपेण प्रस्फुटितोऽस्ति। रामायणे प्रसंगमनुसृत्य वीर, रौद्राद्भुतादि रसानामपि सम्यक्परिपाको दृश्यते । आदिकविनास्मिन्महाकाव्ये चरित्रचित्रणे विलक्षणा निजप्रतिभा प्रदर्शिता । अस्मिन्नादिकाव्ये रघुकुल कमलदिवाकरः क्षात्रावतंसः दाशरथिः रामो नायकस्तस्यार्धांगिनी जनकात्मजा सीता च नायिकास्ति। अस्मिन्महाकाव्ये मानवान्तः प्रकृत्याः यादृशं स्वाभाविकं सूक्ष्म भव्यञ्च विशेलषणं तादृगेव सजीवतया याथातथ्येन च मोहकं प्रकृतिचित्रणमस्ति । मानवमनोवृत्तीनामेतादृशं व्यापकं विशुद्धञ्च निरूपणमन्यत्र दुर्लभमस्ति । एतत्काव्यं भारतीयसभ्यतायाः संस्कृतेश्चेतिहासग्रन्थोडस्ति । अत्र घटनानां दिनांकानाम्च केवलं सञ्चयो न विद्यतेडपितु सभ्यतायाः विकसितस्यादर्शरूपस्य चारुचित्रणमस्ति । परवर्तिनाम् साहित्यकाराणामेषः उपजीवाः ग्रन्थोऽस्ति । एतस्य ग्रन्थस्य भाषा सरला, स्वाभाविका, सुबोधा, प्रवाहपूर्णा, प्रभावोत्पादिका चास्ति । अस्य सरसता विदुषां सहृदयानाञ्च चेतांसि सममेव रञ्चयति।
5. आदिकवि: वाल्मीकिः
6. सदाचारः
अस्माकं भारतीया संस्कृतिः आचार-प्रधाना अस्ति। आचारः द्विविधः भवति-दुराचारः सदाचारः च । सताम् आचारः सचादारः इत्युच्यते। सज्जना: विद्वांसो च यथा आचरन्ति तथैव आचरणं सदाचारो भवति । सज्जनाः स्वकीयानि इन्द्रियाणि वशे कृत्वा सर्वैः सह शिष्टतापूर्वकं व्यवहारं कुर्वन्ति । ते सत्यं वदन्ति, मातुः पितुः गुरुजनानां वृद्धानां ज्येष्ठानां च आदरं कुर्वन्ति, तेषाम् आज्ञां पालयन्ति सत्कर्मणि प्रवृत्ता भवन्ति ।
जनस्य समाजस्य राष्ट्रस्य च उन्नत्यै सदाचारस्य महती आवश्यकता वर्तते । सदाचारस्याभ्यासो बाल्यकालादेव भवति । सदाचारेण बुद्धिः वर्धते नरः धार्मिकः, शिष्टो, विनीतो, बुद्धिमान् च भवति । संसारे सदाचारस्यैव महत्वं दृश्यते । ये सदाचारिणः भवन्ति, ते एव सर्वत्र आदरं लभन्ते । यस्मिन् देशे जनाः सदाचारिणो भवन्ति तस्यैव सर्वतः उन्नतिर्भवति । अतएव महर्षिभिः आचार: परमो धर्मः इत्युच्यते सदाचारी जनः परदारेषुमातृवत् परधनेषु लोष्ठवत्, सर्वभूतेषु च आत्मवत् पश्यति । सदाचारीजनस्य शीलम् एव परमं भूषणम् अस्ति ।
7. उद्यानम्
मम् गृहस्य समीपे अस्ति एकमतीव शोभनम् उद्यानम्। उद्यानस्य हरीतिमां विलोक्य जनाः प्रमुदिताः भवन्ति । अत्र विविधाः वृक्षाः विविधानि पुष्पाणि विविधाः लताश्च सन्ति । वृक्षाः पर्णैः पुष्पैः च शोभन्ते । पर्णानां वर्णाः हरिताः पुष्पाणां च वर्णाः विविधाः। पक्वानि फलानि वृक्षाणां भूषणानि सन्ति । वृक्षाणां शाखाः फलानां भारेण नमन्ति। जनाः वृक्षाणां फलानि भक्षयन्ति। सर्वाः लताः वृक्षान् आश्रयन्ति । लतानां कुसुमानि श्वेतानि, फलानि, नीलानि, रक्तानि वा सन्ति। मालाकारः उद्यानस्य पुष्पाणि चित्वा मालां निर्मापयति । अहं प्रतिदिनं सायकाले तत्र भ्रमणाय गच्छामि। उद्यानस्य शुद्धवायुः मह्यं रोचते । अत्र बालकानां कृते क्रीडनाय क्रीडाक्षेत्रमपि अस्ति । उद्यानस्य वृक्षाणां छायासु जनाः विश्राम्यन्ति । वृक्षेषु खगाः कूजन्ति। प्रभाते तेषां कूजनं मनोहरं भवति । उद्यानस्य समीपे एव जलाशयः अस्ति । मालाकारः तस्मात् जलसेचनं करोति । उद्यानम् अस्माकं जीवने महत्वपूर्णम्। वस्तुतः उद्यानं मे अति प्रियम्।
शासनमनुसृत्य वर्तनमेवानुशासनम्। जीवनस्य विविध क्रियाणां नियन्त्रणार्थं अनुशासनस्य आवश्यकता भवति । अतः जीवने अनुशासनस्य महती आवश्यकता भवति । अनुशासनरहितं जीवनं पशुवत् उच्छृखलं भवति ।
8. अनुशासनम्
निबंध (अनुच्छेद) लेखनम् | 163
मानवसमाजस्य अस्तित्वं शोभां च अनुशासनेन एव भवति । ये जनाः अनुशासनस्य स्वयमेव पालनं कुर्वन्ति ते जीवने श्रेयः लभन्ते । स्वाअनुशासनं मानवस्य एकं वैशिष्ट्यम् अस्ति । सेनायाम् अनुशासनस्य अत्यधिकं महत्वम् भवति । विद्यार्थीनाम् जीवने अनुशासनस्य विशिष्टं स्थानम् भवति । य: अनुशासनस्य पालनं करोति सः सफलतां प्राप्नोति । समये विद्यालये आगमनम्, शान्तभावेन गुरोर्भाषण श्रवणं सहपाठिभिः सह सद्व्यवहारः अध्ययने आहार विहारे वा केचिनियमाः। एतेषाम् पालनमेवानुशासनसनमस्ति । मातृदेवो भव पितृदेवो भव आचार्यदेवो भव स्वाध्यायान्मा प्रमदः । नियमानुवर्तनेनैव नरोऽभीष्टं लब्धुं शक्नोति । विद्याधिगन्तुं अनुशासनपालनमावश्यकम् भवति । अतः छात्रैः अनुशासनस्य पालनं कर्तव्यम्।
9. पर्यावरणम्
अस्मान् परितः यत् वृतं आवृणोति तत् पर्यावरणम्इति कथ्यते । तद् द्विविधंण प्रकृतिनिर्मितं मानवनिर्मिञ्च। सम्प्रति संसारे औद्योगिक विकासेन समं पर्यावरण दूषणस्य समस्या सम्मुखीना वर्तते । विविधोद्योगे: नवाविष्कारैश्च वायुमण्डल जलंच प्रदूषितं संजातम् ।
जनसंख्याविस्फोटेन वनानां विनाशेन, वाहनानामपरितेन घूमेन, विषमिश्रितरसायनानामुपयोगेन, ध्वनि प्रदूषणेन च सर्वत्र हाहाकारः रोगा: अशान्तिश्च व्याप्ता दृश्यन्ते । अस्याः प्रदूषणसमस्यायाः निवारणाय स्थाने स्थाने वृक्षाः रोपणीयाः। वनानां छेदनं रोद्धव्यम्, राजमार्गम् उभयतः क्षायावृक्षाः भवेयुः। औद्योगिक यंत्रशाला: नगराद् ग्रामादव दूरे स्थापनीयाः दूषितानि जलानि गंगादीन्नदीषु न पटेयुः। पर्यावरण विनाशक: दण्डित: स्यात् । पर्यावरण क्षरणे प्रत्येक जनः कटिबद्धः भवेत्। भारतसर्वकारोडपि पर्यावरण संरक्षणार्थ जन सहयोगेन विविधयोजना: निर्माति। पर्यावरणस्य रक्षणे कृत संकल्पाः न भविष्यन्ति, तावद् इयं समस्या तथैव स्थास्यति ।
10. परोपकार:
परेषाम् उपकारः परोपकार अस्ति । संसारे परोपकार एव स गुणो विद्यते, येन मनुष्येषु जीवेषु वा सुखस्य प्रतिष्ठा वर्तते । समाजसेवा-भावना, देशप्रेम-भावना, देशभक्ति-भावना, दीनोद्धरण-भावना, परदुःख-कातरता च परोपकारगुणस्य ग्रहणेनैव भवति । परोपकारकरणेन हृदयं पवित्रं सरलं विनयोपेतं सरसं सदयं च भवति । परोपकारिण: परेषां दुःखं स्वीयं दुखं मत्वा तेषां हितसम्पादनार्थ यतन्ते । परोपकारी दीनेभ्यो दानं ददाति, निर्धनेभ्यो धनम्, वस्त्रहीनेभ्यो वस्त्रम्, पिपासितेभ्यो जलम्, बुभुक्षितेभ्योऽन्नम्, अशिक्षितेभ्यश्च शिक्षां ददाति । सज्जना: परोपकारेणैव प्रसन्नता भवति । प्रकृतिरपि परोपकारस्यैव शिक्षां ददाति । परोपकारर्थमपि सूर्यः तपति, चन्द्रो ज्योत्सनां वितरित, वृक्षाः फलानि वितरन्ति, नद्यो वहन्ति, मेघाश्च वर्षन्ति । शास्त्रेषु परोपकारस्य बहु महत्वं गीतमस्ति । परोपकारः सर्वेषामुपदेशानां सारो वर्तते । परोपकारेणैव जगतोऽभ्युदयो भवतिः शान्तिः सुखं च वर्धते । परोपकार भावनयैव महाराजो दधीचिः देवानां हिताय स्वीयानि अस्थीनि ददौ । महाराजः शिविः कपोतरक्षणार्थं स्वमांसं श्येनाय प्रांदात् । महर्षिः दयानन्दः महात्मा गांधिश्च भारतभूमिहितायैव प्राणान् दत्तवन्तौ । अतः सर्वेरपि सर्वदा सर्वथा परोपकारः करणीयः।
11. धेनुः
धिनोति प्रीणयति इति धेनुः। धेनुः स्वदुग्धेनु स्वरूपेण च जनान् प्रीणयति। जनाः धेनुः गौमाता अपि कथयन्ति । अस्याः चत्वारः पादाः वे शृङ्गे एकं लाङ्गुलं च भवति । धेनूनां विविधाः वर्णाः भवन्ति। धेनुः तृणानि भक्षयित्वा जनेभ्यः मधुरं पयः प्रयच्छति । धेनो: वत्सा: बलीवदां भवन्ति । ते कृषीबलानां कृते उपयोगिनः भवन्ति । नो: गोमयं इन्धने भूमे: उर्वरा शक्तेश्च वर्धनाय उपयुज्यते । धेनोः मूत्रेण यकृद्दोषाः नश्यन्ति। धेनोः दुग्धेन दधि, तक्रं नवनीतं, घृतं च निर्मीयते। धेनोः दुग्धं मधुरं पथ्यं हितकारि च भवति। धेनूनां सेवया श्रीकृष्णः गोपालः इति नाम्रा प्रसिद्धोऽभवत् । भारतीयसंस्कृतौ धेनूनां महत्तवम् अधिकम् अस्ति अत एव उक्तं च “गावो विश्वस्य मातरः इति।”
12. सत्संगतिः
सतां संगतिः इति सत्संगतिः। मनुष्योऽनुकरणशीलश्च वर्तते । संगतिप्रभावस्त्वनिवार्य एव भवति । सतां संगेन तु पुनमर्यमनुष्यस्य सततमभ्युदयो भवति । उत्तरोत्तरं हि सः उन्नतिमेति । यथा काञ्चनसंसर्गान्मारकती द्युति धत्ते, पारस स्पर्शमवाप्यायः स्वर्णतां याति, एवं हि मानवोपि सत्संगत्योच्चपदम् लभते । सत्संगत्या तु पुनः मनुष्यः शुद्धिधीः, आचारवान् च भवति। सत्संगत्या मनुष्यस्य यशो वर्घते, मानोन्नतिर्जायते, पापं नश्यति, चित्तं हृष्यति। सत्संगतिरेवम् महती मनुष्यस्योपकर्ती विद्यते । सत्संगप्रभावेनैव रत्नाकरो लुण्ढको महाकविर्वाल्मीकिरभूत् । सत्संगत्यैव सूरदासः, नन्ददासः रसखानोऽन्ये च बध्वो भाषाकवयः स्वपापवृत्तिं परित्यज्य भगवद्भक्ताः जाताः। सत्संगेनैव नरेन्द्रो नास्तिकः परमहंसो विवेकानन्दोऽभवत् । दुर्जनसंगान्मनुष्यस्य कुतोऽपि हितं न भवति। गुणसम्पन्नोऽपि दुर्जनो हानिकारो भवति । सत्संग: एवं मानवोन्नति हेतुः यशः सुखकारी वरणीयश्चास्ति ।
13. विद्या-महिमा
(विद्याधनं सर्वधन-प्रधानम्/विद्या ददाति विनयम्/विद्या विहीनः पशुः/विद्या सर्वस्य भूषणम्)
कस्यापि विषयस्य सम्यग् ज्ञानं भवति सा विद्या कथ्यते। अतः विद्यया एव मनुष्यः सत्यं-असत्यं च जानाति । विद्या विनयं ददाति । पुरुषे विनयात् पात्रताम् आयाति । पात्रतया सः धनं प्राप्नोति, धनेन धर्म, धर्मेण च सुखं लभते । एतेन कारणेन सुखस्य आधारः विद्या एव अस्ति ।
विद्या धनं व्ययेकृते वृद्धिमायाति परन्तु संचये कृते क्षयमायाति । अतः विद्या अपूर्वं धनमस्ति । इदम् धनं चौरः हत्तुं न शक्नोति भ्राता विभाजयितुं न समर्थोऽस्ति । विद्यावान् पुरुषः सर्वत्र उच्चस्थानं प्राप्नोति । राजा केवलं स्वदेशे पूज्यते परन्तु विद्वान् सर्वत्र पूज्यते । विद्या अज्ञानस्य तिमिरं दूरीकरोति ज्ञानस्य प्रकाशं प्रसारयति च।
विद्या एव जगति मनुष्यस्य उन्नतिं करोति । विद्या एवं कीर्तिं धनं च ददाति । विद्या वस्तुतः कल्पलता इव विद्यते । विदेशगमने विद्या परमसहायिका भवति । यस्य समीपे विद्या नास्ति सः नेत्रयुक्तः अपि अन्धः एव । विद्या माता इव रक्षति पिता इव हिते नियुङ्क्ते ।
14. अस्माकं देशः
अयम् अस्माकं भारतदेशः अस्ति । यत्र भरतनामकः राजा वसतिस्म। तस्य सम्बन्धात् अस्य नाम भारतम् इति । अस्य उत्तरस्यां दिशि हिमालयः पर्वतः दक्षिणस्याम् च हिन्दमहासागरः अस्ति। अत्र गंगा यमुनासरयु गोदावरी प्रभृतयः देवनद्यः प्रवहन्ति, यासां जलेन भारतभूमिः शस्यशामला अस्ति। इयं वीर प्रसूता भूमि अस्ति। विधातायाम् एकता भारतस्य विशेषता अस्ति। अस्माकं राष्ट्रध्वजः त्रिवर्णात्मकः। राष्ट्रिय वाक्यम् – सत्यमेव जयते नानृतम् । राष्ट्रिय चिह्नम्, सिंहशीर्षम्, राष्ट्रगीतम् राष्ट्रभाषा च अस्य राष्ट्रीयतायाः मुख्यधाराः सन्ति । संस्कृत भाषा एव अस्य प्राचीनतमा भाषा अस्ति । अस्य देशस्य गौरवम् प्राचीनम् अस्ति । ज्ञानविज्ञानौ अयं देशेः विश्वगुरुः इति कथ्यते । भारतस्य उन्नत्यै एव अस्माकं समयस्य, धनस्य च अधिकतमः उपयोगः भवेतु इति अयम् अस्माकं संकल्पः।
15. शिक्षकः
शिक्षयति शिक्षां ददाति यः सः शिक्षक इति कथ्यते । प्राचीनकाले शिक्षक: गुरुः आचार्य इति कथ्यते स्म। शिक्षकः छात्रेभ्यः शिक्षां ददाति तेषां जीवनस्य निर्माणं च करोति । ये शिक्षकाः स्वविषये निपुणाः भवन्ति ते सफल शिक्षकाः भवन्ति । ये शिक्षकाः स्वविषये प्रवीणाः आदर्शचरित्राश्च भवन्ति ते सर्वत्र आदृता भवन्ति ।
एतादृशः शिक्षकः राष्ट्रनिर्माता इत्यपि कथ्यते। शिक्षकाः छात्राणाम् अज्ञानान्धकारं दूरीकरोति। छात्राः शिक्षकाणां चरित्रस्य अनुकरणं कुर्वन्ति। अतः शिक्षकस्य समाजे राष्ट्रे च सम्मानं भवति। अस्माकं देशे प्रतिवर्षसितम्बरमासस्य पञ्चमदिनाङ्के “शिक्षक दिवसः” आयोज्यते। अस्माकं राष्ट्रपति महोदयाः शिक्षकानां सम्मानं कुर्वन्ति । अतः राष्ट्रस्य उन्नत्यै शिक्षकाणाम् आदरो विधेयः।
Leave a Reply