![अध्याय 1 परीक्षोपयोगी गद्यांशों एवं पद्यांशों पर](https://mpbooksolution.in/wp-content/uploads/2021/07/CLASS-9TH-ENGLISH-14-300x169.jpg)
परीक्षोपयोगी गद्यांशों एवं पद्यांशों पर
अध्याय 1
परीक्षोपयोगी गद्यांशों एवं पद्यांशों पर
आधारित प्रश्नोत्तर
१. भारतीवसन्तगीतिः
(1) निनादय नवीनामये वाणि | वीणाम्
मृदंगाय गीति ललित-नीति-लीनाम् ।
मधुर-मञ्जरी-पिज्जरी-भूत-माला:
वसन्ते लसन्तीह सरसा रसाला:
कलापा: ललित-कोकिला-काकलीनाम्॥
निनादय…॥
प्रश्न-(क) अये वाणि! कां निनादय?
(ख) ललितनीतिलीनां किं मृदुं गाय ?
(ग) कदा रसाला: लसन्ति ?
(घ) ललित-कोकिला-काकलीना के?
(ङ) “वीणाम्” इति पदस्य विभक्ति वचनञ्च लिखत।
उत्तर-(क) अये वाणि! नवीनां वीणां निनादय।
(ख) ललितनीतिलीनां गीति मृदुं गाय।
(ग) वसन्ते रसाला: लसन्ति।
(घ) ललित कोकिला-काकलीनां कलापाः।
(ङ) “वीणाम्”
विभक्ति:-द्वितीया।
वचनम्-एकवचनम्।
२. स्वर्णकाकः
(१) पुरा कस्मिंश्चिद् ग्रामे एका निर्धना वृद्धा स्त्री न्यवसत्। तस्याः च एका दुहिता विनम्रा मनोहराचासीत्। एकदा माता स्थाल्या तण्डुलान् निक्षिप्य पुत्रीम् आदिशत्। “सूर्यातपे तण्डुलान् खगेभ्यो रक्ष।”किञ्चित् कालादनन्तरम् एको विचित्रः काकः समुड्डीय तस्याः समीपम् अगच्छत्।
नैतादृशः स्वर्णपक्षो रजतचञ्चुः स्वर्णकाकस्तया पूर्व दृष्टः।तं तण्डुलान् खादन्तं हसन्तञ्च विलोक्यबालिकारोदितुमारब्धा। तं निवारयन्ती सा प्रार्थयत्-“तण्डुलान् मा भक्षय। मदीया माता अतीव निर्धनावर्तते।”
प्रश्न-(क) पुरा कस्मिंश्चित् ग्रामे का न्यवसत् ?
(ख) तस्याः दुहिता कीदृशी आसीत् ?
(ग) कः समुड्डीय तस्याः समीपम् अगच्छत् ?
(घ) बालिका किं कर्तुम् आरब्धा ?
(ङ) ‘नैतादृशः’ इति पदस्य सन्धि-विच्छेदं कृत्वा लिखत।
उत्तर-(क) पुरा कस्मिंश्चित् ग्रामे एका निर्धना वृद्धा स्त्री न्यवसत् ।
(ख) तस्याः दुहिता विनम्रा मनोहरा चासीत् ।
(ग) एको विचित्रः काकः समुड्डीय तस्याः समीपम्अगच्छत्।
(घ) बालिका रोदितुम् आरब्धा ।
(ङ) ‘नैतादृशः’ – न + एतादृशः ।
(२) सूर्योदयात्पूर्वमेवं सा तत्रोपस्थिता। वृक्षस्योपरि विलोक्य सा च आश्चर्यचकिता सजाता यन्
तत्र स्वर्णमयः प्रासादो वर्तते। यदा काकः शयित्वा प्रबुद्धस्तदा तेन स्वर्णगवाक्षात्कथितं “हहो बाले!
त्वमागता, तिष्ठ, अहं त्वत्कृते सोपानमवतारयामि, तत्कथय स्वर्णमयं रजतमयम् ताम्रमयं वा” ? कन्या
अवदत् “अहं निर्धनमातुः दुहिता अस्मि। ताम्रसोपानेनैव आगमिष्यामि।” परं स्वर्णसोपानेन सा स्वर्ण
भवनम् आरोहत।
प्रश्न-(क) सा कथम् आश्चर्यचकिता सजाता?
(ख) कः शयित्वा प्रबुद्धः?
(ग) सा कदा तत्रोपस्थिता?
केन सोपानेन स्वर्णभवनम् आरोहत
(ङ) ‘विलोक्य’ इति पदस्य प्रकृतिप्रत्ययौ पृथक् कुरुत।
उत्तर-(क) सा वृक्षस्योपरि विलोक्य आश्चर्यचकिता सञ्जाता।
(ख) काकः शयित्वा प्रबुद्धः।
(ग) सा सूर्योदयात्पूर्वमेव तत्रोपस्थिता।
(घ) सा स्वर्णसोपानेन स्वर्णभवनम् आरोहत ।
(ङ) वि-उपसर्ग:
(घ)लोक्-धातु:ल्यप्-प्रत्ययः।
(३) तस्मिन्नेव ग्रामे एका अपरा लुब्धा वृद्धा न्यवसत्। तस्या अपि एका पुत्री आसीत्। काया
सा तस्य स्वर्णकाकस्य रहस्यम् ज्ञातवती। सूर्यातपे तण्डुलान् निक्षिप्य तयापि स्वसुता रक्षार्थं नि-ना।
तथैव स्वर्णपक्षः काकः तण्डुलान् भक्षयन् तामपि तत्रैवाकारयत्। प्रातस्तत्र गत्वा सा काकं निर्भत्स्मयन्ती
प्रावोचत्-“भो नीचकाक! अहमागता, मह्यं तण्डुलमूल्यं प्रयच्छ।” काकोऽब्रवीत-“अहं त्वत्कृते सोपानम्
अवतारयामि। तत्कथय स्वर्णमयं रजतमयं ताम्रमयं वा।” गर्वितया बालिकया प्रोक्तम्-“स्वर्णमयेन
सोपानेन अहम् आगच्छामि।” परं स्वर्णकाकस्तत्कृते ताम्रमयं सोपानमेव प्रायच्छत्। स्वर्णकाकस्तां
भोजनमपि ताम्रभाजने एव अकारयत्।
प्रश्न-(क) तस्मिन्नेव ग्रामे एका अपरा का न्यवसत् ?
(ख) सा स्वर्णकाकस्य किम् ज्ञातवती?
(ग) सा कार्क निर्भर्त्सयन्ती किं प्रावोचत् ?
(घ) स्वर्णकाकस्तां भोजनमपि कुत्र अकारयत् ?
(ङ) ‘ग्रामे’ इत्यस्मिन् पदे विभक्ति वचनं च लिखत।
उत्तर- (क) तस्मिन्नेव ग्रामे एका अपरा लुब्धा वृद्धा न्यवसत्।
(ख) सा स्वर्णकाकस्य रहस्यम् ज्ञातवती।
(ग) सा काकं निर्भर्त्सयन्ती प्रावोचत् “भो नीचकाक! अहमागत मह्यं तण्डुलमूल्यं प्रयच्छ”
इति।
(घ) स्वर्णकाकस्तां भोजनमपि ताम्रभाजने एव अकारयत्।
(ङ) ग्रामे = सप्तमी विभक्तिः एकवचनं च।
३. गोदोहनम्
(१) चन्दनः-अहा! सुगन्धस्तु मनोहरः (विलोक्य) अये मोदकानि रच्यन्ते ? (प्रसन्नः भूत्वा)
आस्वादयामि तावत्। (मोदकं गृहीतुमिच्छति)
मल्लिका-(सक्रोधम्) विरम। विरम। मा स्पृश! एतानि मोदकानि।
चन्दनः-किमर्थं कुष्यसि! तव हस्तनिर्मित मोदकानि दृष्ट्वा अहं जिह्वालोलुपता नियन्त्रयितुम्
अक्षमः अस्मि, किं न जानासि त्वमिदम् ?
मल्लिका-सम्यग् जानामि नाथ! परम् एतानि मोदकानि पूजानिमित्तानि सन्ति ।
चन्दन:-तर्हि, शीघ्रमेव पूजनं सम्पादय। प्रसादं च देहि।
मल्लिका-भो! अन पूजनं न भविष्यति। अहं स्वसखिभिः सह श्वः प्रात: काशीविश्वनाथमन्दिरं
प्रति गमिष्यामि, तत्र गङ्गास्नानं धर्मयात्राञ्च वयं करिष्यामः।
प्रश्न-(क) “अये मोदकानि रच्यन्ते” इति कः वदति ?
(ख) मा स्पृश! एतानि कानि?
(ग) अहं जिह्वालोलुपतां किम् कर्तुम् अक्षमः अस्मि?
(घ) मोदकानि किमर्थं सन्ति ?
(ङ) ‘दृष्ट्वा’ इत्यस्मिन् पदे प्रकृति-प्रत्ययं च पृथक् कुरुत।
उत्तर-(क) “अये मोदकानि रच्यन्ते” इति चन्दन:वदति।
(ख) मा स्पृश! एतानि मोदकानि।
(ग) अहं जिह्वालोलुपतां नियन्त्रयितुम् अक्षम: अस्मि।
(घ) मोदकानि पूजानिमित्तानि सन्ति ।
(ङ) ‘दृष्ट्वा’ = दृश् धातु: क्त्वा प्रत्ययं च।
(२) चन्दन:-अस्तु। गच्छ। सखिभिः सह धर्मयात्रया आनन्दिता च भव। अहं सर्वमपि
परिपालयिष्यामि। शिवास्ते सन्तु पन्थानः।
चन्दनः-मल्लिका तु धर्मयात्रायै गता। अस्तु। दुग्धदोहनं कृत्वा ततः स्वप्रातराशस्य प्रबन्ध
करिष्यामि । (स्त्रीवेशं धृत्वा, दुग्धपात्रहस्त: नन्दिन्याः समीपं गच्छति)
उमा-मातुलानि! मातुलानि!
चन्दनः-उमे! अहं तु मातुलः । तव मातुलानि तु गङ्गास्नानार्थ काशीं गता अस्ति। कथय! किं ते
प्रियं करवाणि?
उमा-मातुल! पितामहः कथयति, मासानन्तरम् अस्मत् गृहे महोत्सवः भविष्यति। तत्र त्रिशत-
सेटकमितं दुग्धम् अपेक्षते। एषा व्यवस्था भवद्भिः करणीया।
प्रश्न-(क) काभिः सह धर्मयात्रया आनन्दिता च भव?
(ख) शिवास्ते के सन्तु ?
(ग) दुग्धदोहनं कृत्वा ततः कस्य प्रबन्धं करिष्यामि ?
(घ) महोत्सवे कियत् दुग्धम् अपेक्षते ?
(ङ) ‘करणीया’ इत्यस्य पदस्य प्रकृति-प्रत्ययं च पृथक् कुरुत।
उत्तर-(क) सखिभिः सह धर्मयात्रया आनन्दिता च भव।
(ख) शिवास्ते पन्थान: सन्तु।
(ग) दुग्धदोहनं कृत्वा तत: स्वप्रातराशस्य प्रबन्धं करिष्यामि।
(घ) महोत्सवे त्रिशत-सेटकमितं दुग्धम् अपेक्षते।
(ङ) ‘करणीया’ = कृ धातुः अनीयर् प्रत्ययः च।
(३) चन्दनः-(चिन्तयति) मासान्ते एव दुग्धस्य आवश्यकता भवति। यदि प्रतिदिनं दोहनं करोमि
तर्हि दुग्धं सुरक्षितं न तिष्ठति। इदानीं किं करवाणि ? भवतु नाम मासान्ते एव सम्पूर्णतया दुग्थदोहन ।
करोमि।
(एवं क्रमेण सप्तदिनानि व्यतीतानि । सप्ताहान्ते मल्लिका प्रत्यागच्छति)
मल्लिका-(प्रविश्य) स्वामिन्! प्रत्यागता अहम्। आस्वादय प्रसादम्।
(चन्दन: मोदकानि खादति वदति च)
चन्दनः-मल्लिके! तव यात्रा तु सम्यक् सफला जाता काशीविश्वनाथस्य कृपया प्रिय
निवेदयामि।
मल्लिका-(सार्यम्) एवम्। धर्मयात्रातिरिक्तं प्रियतरं किम् ?
चन्दनः-ग्रामप्रमुखस्य गृहे महोत्सवः मासान्ते भविष्यति । तत्र त्रिशत-सेटकमितं दुग्धम् अस्माभिः
दातव्यम् अस्ति।
प्रश्न-(क) कदा दुग्धस्य आवश्यकता भवति ?
(ख) कथं दुग्धं सुरक्षितं न तिष्ठति ?
(ग) एवं क्रमेण कति दिनानि व्यतीतानि ?
(घ) कस्य कृपया प्रियं निवेदयामि ?
(ङ) ‘दातव्यम्’ इत्यस्य पदस्य प्रकृतिप्रत्ययं च लिखत।
उत्तर- (क) मासान्ते एव दुग्धस्य आवश्यकता भवति।
(ख) यदि प्रतिदिनं दोहनं करोमि तर्हि दुग्धं सुरक्षितं न तिष्ठति ।
(ग) एवं क्रमेण सप्तदिनानि व्यतीतानि।
(घ) काशीविश्वनाथस्य कृपया प्रियं निवेदयामि।
(ङ) ‘दातव्यम्’ = दा धातुः, तव्यत् प्रत्ययः च।
(४) चन्दन:-नमस्करोमि तात! पञ्चदश घटान् इच्छामि। किं दास्यसि?
देवेश-कथं न ? विक्रवणाय एव एते। गृहाण घटान्। पञ्चशतोत्तर-रूप्यकाणि च देहि।
चन्दनः-साधु। परं मूल्यां तु दुग्धं विक्रीय एव दातुं शक्यते।
देवेश:-क्षम्यतां पुत्र! मूल्यं विना तु एकमपि घट न दास्यामि।
आभूषणम्।
मल्लिका-(स्वाभूषणं दातुमिच्छति) तात! यदि अधुनैव मूल्यम् आवश्यकं तर्हि, गृहाण एतत्
देवेश:-पुत्रिके! नाहं पापकर्म करोमि। कथमपि नेच्छामि त्वाम् आभूषणविहीनां कर्तुम्। नयतु
यथाभिलषितान् घटान्। दुग्धं विक्रीय एव घटमूल्यम् ददातु।
उभौ-धन्योऽसि तात! धन्योऽसि।
प्रश्न-(क) कति घटान् इच्छामि ?
(ख) कति रूप्याकाणि देहि?
(ग) मूल्य कदा दातुं शक्यते ?
(घ) पुत्रिके! नेच्छामि त्वाम् कथं कर्तुम् ?
(ङ) ‘अधुनैव’ इत्यस्य पदस्य सन्धि-विच्छेदं कुरुत।
उत्तर-(क) पञ्चदश घटान् इच्छामि।
(ख) पञ्चशतोत्तर-रूप्यकाणि देहि।
(ग) मूल्यं दुग्धं विक्रीय एवं दातुं शक्यते।
(घ) पुत्रिके ! नेच्छामि त्वाम् आभूषणविहीनां कर्तुम्।
(ङ) अधुनैव – अधुना + एव।
४. कल्पतरुः
(१) अस्ति हिमवान् नाम सर्वरलभूमि: नगेन्द्रः। तस्य सानो: उपरि विभाति कञ्चनपुरं नाम नगरम्।
तत्र जीमूतकेतुः इति श्रीमान् विद्याधरपति: वसति स्म। तस्य गृहोद्याने कुलक्रमागतः कल्पतरुः स्थितः।सराजा जीमूतकेतुः तं कल्पतरुम् आराध्य तत्प्रसादात् च बोधिसत्वांशसम्भवं जीमूतवाहनं नाम पुत्र प्राप्नोत् ।स: जीमूतवाहनः महान् दानवीरः सर्वभूतानुकम्पी च अभवत्। तस्य गुणैः प्रसन्नः स्वसचिवैश्च प्रेरित
राजा कालेन सम्पाप्तयौवनं तं यौवराज्ये अभिषिक्तवान्।
प्रश्न-(क) सर्वरत्नभूमि: किं नाम नगेन्द्रः अस्ति ?
(ख) तस्य सानो: उपरि किं नाम नगरं विभाति ?
(ग) तत्र कः वसति स्म ?
(घ) सः राजा जीमूतकेतुः किं नाम पुत्रं प्राप्नोत् ?
(ङ) “स्थितः’ इति पदस्य प्रकृतिं प्रत्ययं च ।
पृथक्कुरुत।
उत्तर- (क) सर्वरत्नभूमिः हिमवान् नाम नगेन्द्रः अस्ति।
(ख) तस्य सानो: उपरि कञ्चनपुरं नाम नगरं विभाति।
(ग) तत्र जीमूतकेतुः इति श्रीमान् विद्याधरपति: वसति स्म।
(घ) स: राजा जीमूतकेतुः जीमूतवाहनं नाम पुत्र प्राप्नोत्।
(ङ) स्था-धातुः, क्त-प्रत्ययः।
(२) अथ पित्रा ‘तथा’ इति अभ्यनुज्ञातः स जीमूतवाहन: कल्पतरुम् उपगम्य उवाच-“देव ! त्वया
अस्मत्पूर्वेषाम् अभीष्टा: कामा: पूरिताः, तन्ममैकं काम पूरय। यथा पृथ्वीम् अदरिद्रां पश्यामि, तथा करोतु
देव” इति। एवंवादिनि जीमूतवाहने “त्यक्तस्त्वया एषोऽहं यातोऽस्मि” इति वाक् तस्मात् तरोः उदभूत।
क्षणेन च स कल्पतरुः दिवं समुत्पत्य भुवि तथा वसूनि अवर्षत् यथा न कोऽपि दुर्गत आसीत्।
ततस्तस्य जीमूतवाहनस्य सर्वजीवानुकम्पया सर्वत्र यशः प्रथितम्।
प्रश्न-(क) सः जीमूतवाहनः कम् उपगम्य उवाच ?
(ख) यथा काम् अदरिद्रां पश्यामि तथा करोतु देव इति ?
(ग) सः कल्पतरुः कुत्र समुत्पत्य भुवि वसूनि अवर्षयत् ?
(घ) जीमूतवाहनस्य कया सर्वत्र यशः प्रथितम् ?
(ङ) ‘उपगम्य’ इति पदस्य प्रकृति प्रत्ययं च पृथक्कुरुत् ?
उत्तर- (क) सः जीमूतवाहनः कल्पतरुम् उपगम्य उवाच ।
(ख) यथा पृथ्वीम् अदरिद्रां पश्यामि, तथा करोतु देव इति।
(ग) स कल्पतरुः दिवं समुत्पत्य भुवि वसूनि अवर्षयत्।
(घ) जीमूतवाहनस्य सर्वजीवानुकम्पया सर्वत्र यशः प्रथितम्।
(ङ) उप-उपसर्ग:
गम्-धातुः
ल्यप्-प्रत्ययः।
५. सूक्तिमौक्तिकम्
(१) वृत्तं यलेन संरक्षेद वित्तमेति च याति च।
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः।
प्रश्न-(क) यलेन किं संरक्षेद् ?
(ख) किम् एति याति च ?
(ग) वित्ततः क्षीणः कथम् ?
(घ) वृत्ततस्तु कथम्?
(ङ) ‘यत्नेन’ इति पदे विभक्ति वचनं च लिखत।
उत्तर- (क) यत्नेन वृत्तं संरक्षेद् ।
(ख) वित्तम् एति याति च।
(ग) वित्ततः क्षीण: अक्षीणः।
(घ) वृत्ततस्तु हतो हतः।
(ङ) ‘यत्नेन’ – तृतीया विभक्तिः एकवचनम् च।
(२) प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः ।
तस्माद् तदैव वक्तव्यं वचने का दरिद्रता।
प्रश्न-(क) सर्वे जन्तवः कथं तुष्यन्ति ?
(ख) तस्माद् किं वक्तव्यम् ?
(ग) कुत्र का दरिद्रता ?
(घ) ‘जन्तवः’ इति पदे विभक्ति वचनं च लिखत।
(ङ) ‘तुष्यन्ति’ इत्यस्मिन् पदे धातुं लकारं पुरुषं वचनं च लिखत।
उत्तर- (क) सर्वे जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति ।
(ख) तस्माद् तदैव (प्रियवाक्यम्) वक्तव्यम्।
(ग) वचने का दरिद्रता।
(घ) ‘जन्तवः’ प्रथमा विभक्तिः एकवचनं च।
(ङ) तुष्-धातुःलट्-लकार:प्रथम:-पुरुषः बहुवचनम्-वचनम्।
(३) पिबन्ति नद्यः स्वयमेव नाम्भः
स्वयं न खादन्ति फलानि
वृक्षाः।
नादन्ति सस्यं खलु वारिवाहाः
परोपकाराय सतां विभूतयः॥
प्रश्न-(क) का: स्वयमेव अम्भः न पिबन्ति ?
(ख) वृक्षाः स्वयं कानि न खादन्ति ?
(ग) के खलु सस्यं नादन्ति ?
(घ) सतां विभूतयः कस्मै ?
(ङ) ‘स्वयमेव’ इति पदस्य सन्धिविच्छेदं कुरुत।
उत्तर-(क) नद्यः स्वयमेव अम्भः न पिबन्ति।
(ख) वृक्षाः स्वयं फलानि न खादन्ति।
(ग) वारिवाहाः खलु सस्यं नादन्ति ।
(घ) सतां विभूतयः परोपकाराय।
(ङ) स्वयमेव = स्वयम् + एव।
(४) आरम्भगुर्वी क्षयिणी क्रमेण
लध्वी पुरा वृद्धिमती च पश्चात्।
दिनस्य पूर्वार्द्धपरार्द्धभिन्ना
छायेव मैत्री खलसज्जनानाम्॥
प्रश्न-(क) आरम्भगुर्वी क्रमेण कथम् ?
(ख) पुरा लघ्वी पश्चात् कीदृशी?
(ग) छायेव खलसज्जनानां किम् ?
(घ) कस्य पूर्वार्द्धपरार्द्धभिन्ना छायेव मैत्री ?
(क) ‘छायेव’ इति पदस्य सन्धिविच्छेदं कृत्वा सन्धे नाम लिखत।
उत्तर- (क) आरम्भगुर्वी क्रमेण क्षयिणी।
(ख) पुरा लध्वी पश्चात् वृद्धिमती।
(ग) छायेव खलसज्जनानां मैत्री।
(घ) दिनस्य पूर्वार्द्धपराद्धभिन्ना छायेव मैत्री।
(ङ) छायेव-छाया + इव, गुणसन्धिः।
६. भ्रान्तो बाल:
(१) भ्रान्तः कश्चन बाल: पाठशालागमनवेलायां क्रीडिम् अगच्छत्। किन्तु तेन सह केलिभिः कालं
क्षेप्तुं तदा कोऽपिन वयस्येषु उपलभ्यमान आसीत्। यतः ते सर्वेऽपि पूर्वदिनपाठान् स्मृत्वा विद्यालयगमनाय
त्वरमाणाः अभवन् । तन्द्रालुः द्रालः लज्जया तेषां दृष्टिपथमपि परिहरन् एकाकी किमपि उद्यानं प्राविशत्।
सः अचिन्तयत्-“विरमन्तु एते वराका: पुस्तकदासाः। अहं तु आत्मानं विनोदयिष्यामि। सम्प्रति
विद्यालयं गत्वा भूयः क्रुद्धस्य उपाध्यायस्य मुखं द्रष्टुं नैव इच्छामि। एते निष्कुटवासिनः प्राणिन एव मम
वयस्याः सन्तु” इति।
प्रश्न-(क) कः पाठशालागमनवेलाचां क्रीडितुम् अगच्छत् ?
(ख) तेन सह कालं क्षेप्तुं कोऽपि केषु न उपलभ्यमान आसीत् ?
(ग) ते कुत्र गमनाय त्वरमाणा: अभवन् ?
(घ) भूयः क्रुद्धस्य कस्य मुखं द्रष्टुं नैव इच्छामि ?
(ङ) ‘स्मृत्वा’ इत्यस्मिन् पदे प्रकृति प्रत्ययं च लिखत।
उत्तर- (क) भ्रान्तः कश्चन बाल: पाठशाला गमनवेलायां क्रीडितुम् अगच्छत्।
(ख) तेन सह कालं क्षेप्तुं कोऽपि वयस्येषु न उपलभ्यमान आसीत्।
(ग) ते विद्यालयगमनाय त्वरमाणाः अभवन्।’
(घ) भूयः क्रूद्धस्य उपाध्यायस्य मुखं द्रष्टुं नैव इच्छामि।
(ङ) स्मृत्वा स्मृ-धातुः।क्त्वा-प्रत्ययः।
(२) तदा खिनो बालकः एते पक्षिणो मानुषेषु नोपगच्छन्ति । तद् अन्वेषयामि अपरं मानुषोचितं
विनोदयितारम् इति विचिन्त्य पलायमानं कमपि श्वानम् अवलोकयत्। प्रीतो बालः तम् इत्थं संबोधयत्-
रे मानुपाणां मित्र ! किं पर्यटसि अस्मिन् निदाघदिवसे ? इदं प्रच्छायशीतलं तरुमूलम् आश्रयस्व। अहमपि
क्रीडासहायं त्वामेवानुरूपं पश्यामीति। कुक्कुरः प्रत्यवदत्-
यो मां पुत्रप्रीत्या पोषयति स्वामिनो गृहे तस्य।
रक्षानियोगकरणान्न मया भ्रष्टव्यमीषदपि।। इति।
प्रश्न-(क) तदा खिनो बालकः एते पक्षिणो केषु नोपगच्छन्ति ?
(ख) पलायमान कम् अवलोकयत् ?
(ग) रे मानुषाणां! मित्र!’ इति कः अवदत् ?
(घ) यो मां कथं पोषयति?
(ङ) ‘पश्यामीति’ इति पदस्य सन्धिविच्छेदं कृत्वा सन्धेः नाम लिखत।
उत्तर-(क) तदा खिन्नो बालक: एते पक्षिणी मानुषेशु नोपगच्छन्ति।
(ख) पलायमानं श्वानम् अवलोकयत्।
(ग) ‘रे मानुषाणां मित्र।’ इति आन्त। बालः अवदत्।
(घ) यो मां पुत्रप्रीत्या पोपयति।
(ब) ‘पश्यामीति’ – पश्यामि – इति, दीर्घसन्धिः।
७. प्रत्यभिज्ञानम्
विशेष : कोविड परिस्थितियों के चलते यह अध्याय माध्यमिक शिक्षा मण्डल, मध्यप्रदेश, भोपाल द्वारा
सत्र : 2020-21 के लिए पाठ्यक्रम में से हटा दिया गया है।
८. लौहतुला
(१) आसीत् कस्मिंश्चिद् अधिष्ठाने जीर्णधनो नाम वणिक्पुनः। स च विभवक्षयात् देशान्तर
गन्तुमिच्छन् व्यचिन्तयत्-
यत्र देशेऽथवा स्थाने भोगा भुक्ताः स्ववीर्यतः।
तस्मिन् विभवहीनो यो वसेत् स पुरुषाधमः॥
तस्य च गृहे लौहघटिता पूर्वपुरुषोपार्जिता तुला आसीत्। तां च कस्यचित् श्रेष्ठिनो गृहे निक्षेपभूता
कृत्वा देशान्तरं प्रस्थितः। ततः सुचिरं कालं देशान्तरं यथेच्छया भ्रान्त्वा पुनः स्वपुरम् आगत्य तं श्रेष्ठिनम्
अवदत्-“भोः श्रेष्ठिन् ! दीयतां मे सा निक्षेपतुला।” सोऽवदत्-“भोः ! नास्ति सा, त्वदीया तुला मूषकै
भक्षिता” इति।
प्रश्न-(क) कस्मिंश्चिद् अधिष्ठाने जीर्णधनो नाम कः आसीत् ?
(ख) सः विभवक्षयात् कुत्र गन्तुमिच्छन् व्यचिन्तयत् ?
(ग) तस्य च गृहे लौहघटिता पूर्वपुरुषोपार्जिता का आसीत् ?
(घ) यो विभवहीनो वसेत् स पुरुषः कीदृशः ?
(ङ) ‘गन्तुम्’ इत्यस्य पदस्य प्रकृति प्रत्ययं च
पृथक्कुरुत?
उत्तर-(क) कस्मिंश्चिद् अधिष्ठाने जीर्णधनो नाम वणिक्पुत्रः आसीत्।
(ख) स: विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्।
(ग) तस्य च गृहे लौहघटिता पूर्वपुरुषोपार्जिता तुला आसीत्।
(घ) यो विभवहीनी वसेत् स पुरुष: अधमः।
(ङ) गन्तुम् = गम्-धातुः
तुमुन्-प्रत्ययः।
(२) जीर्णधनः अवदत्-“भो; श्रेष्ठिन् ! नास्ति दोषस्ते, यदि मूषकैः भक्षिता। ईदृशः एव अप
संसारः। न किञ्चिदत्र शाश्वतमस्ति। परमहं नद्यां स्नानार्थं गमिष्यामि। तत् त्वम् आत्मीय एनं शिश
धनदेवनामानं मया सह स्नानोपकरणहस्तं प्रेषय”इति।इति।
स श्रेष्ठी स्वपुत्रम् अवदत्-“वत्स ! पितृव्योऽयं तव, स्नानार्थं यास्यति, तद् अनेन साकं गच्छ
अथासौ श्रेष्ठिपुत्रः धनदेवः स्नानोपकरणमादाय प्रहृष्टमनाः तेन अभ्यागतेन सह प्रस्थितः
तथानुष्ठिते स वणिक् स्नात्वा तं शिशुं गिरिगुहायां प्रक्षिप्य, तद्वारं बृहत् शिलया आच्छाद्य सत्त्वा
गृहमागतः।
प्रश्न-(क) ‘भोः श्रेष्ठिन् ! नास्ति दोषस्ते’ इतिः कः अवदत् ?
(ख) अहं स्नानार्थ कुत्र गमिष्यामि ?
(ग) त्वम् आत्मीयं शिशुमेनं किं नामानं मया सह प्रेषय ?
(घ) वणिक्शिशुः केन सह प्रस्थितः ?
(ङ) ‘गमिष्यामि’ इत्यस्य पदस्य धातुं लकारं पुरुषं वचनं च लिखत।
उत्तर- (क) ‘भोः श्रेष्ठिन्। नास्ति दोषस्ते’ इति जीर्णधनः अवदत्।
(ख) अहं स्नानार्थ नद्यां गमिष्यामि।
(ग) त्वम् आत्मीयं शिशुं धनदेवनामानं मया सह प्रेषय।
(घ) वणिविशशुः अभ्यागतेन सह प्रस्थितः।
(ङ) ‘गमिष्यामि’ = गम्-धातुः
उत्तम:-पुरुषः
लृट् लकार: एकवचनम्-वचनम्।
९. सिकतासेतु
(ततः प्रविशति तपस्यारतः तपोदत्तः)
तपोदत्त:-अहमस्मि तपोदत्तः । बाल्ये पितृचरणै: क्लेश्यमानोऽपि विद्यां नाऽधीतवानस्मि। तस्मात्
सर्वैः कुटुम्बिभिः मित्रैः ज्ञातिजनैश्च गर्हितोऽभवम्।
(ऊर्ध्व निःश्वस्य)
हा विधे! किम् इदं मया कृतम् ? कीदृशी दुर्बुद्धि आसीत् तदा। एतदपि न चिन्तितं यत्-
परिधानैरलङ्कारैर्भूषितोऽपि न शोभते।
नरो निर्मणिभोगीव सभायां यदि वा गृहे॥
(किञ्चिद् विमृश्य)
भवतु, किम् एतेन ? दिवसे मार्गभ्रान्तः सन्ध्यां यावद् यदि गृहमुपैति तदपि वरम्। नाऽसौ भ्रान्तो
मन्यते। अतोऽहम् इदानीं तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽस्मि।
प्रश्न-(क) अहं कः अस्मि?
(ख) कदा पितृचरणै: क्लेश्यमानोऽपि विद्या नाऽधीतवानस्मि?
(ग) सर्वैः कुटुम्बिभिः मित्रैः ज्ञातिजनैश्च कथम् अभवम् ?
(घ) नरः कीदृशः सभायां यदि वा गृहे न शोभते ?
(ङ) ‘निर्मणिभोगीव’ इत्यस्य पदस्य सन्धि-विच्छेदं कृत्वा सन्धे: नाम लिखत।
उत्तर-(क) अहं तपोदत्त: अस्मि।
(ख) बाल्ये पितृचरणैः क्लेश्यमानोऽपि विद्यां नाऽधीतवानस्मि।
(ग) सर्वैः कुटुम्बिभिः मित्रैः ज्ञातिजनैश्च गर्हितोऽभवम्।
(घ) नरः निर्मणिभोगीव सभायां यदि वा गृहे न शोभते।
(ङ) ‘निर्मणिभोगीव’ = निर्मणिभोगी + इव, दीर्घसन्धिः।
१०. जटायोः शौर्यम्
(१) सा तदा करुणा वाचो विलपन्ती सुदुःखिता।
वनस्पतिगतं गृधं ददर्शायतलोचना।
प्रश्न-(क) का तदा करुणा वाचो विलपन्ती
सुदुःखिता?
(ख) आयतलोचना वनस्पतिगतं कं ददर्श ?
(ग) गृधं कुत्र गतं ददर्श ?
(घ) सा तदा कीदृशी वाचो विलपन्ती सुदुःखिता?
(ङ) ‘ददर्शायतलोचना’ इत्यस्य पदस्य सन्धि-विच्छेदं कृत्वा सन्धे; नाम लिखत।
(क) सा तदा करुणा वाचो विलपन्ती सुदु:खिता।
(ख) आयतलोचना वनस्पतिगतं गृधं ददर्श।
(ग) गृधं वनस्पतिगतं ददर्श।
(घ) सा तदा करुणा वाचो विलपन्ती सुदु:खिता।
(ङ) ‘ददर्शायतलोचना’ = ददर्श + आयतलोचना, दीर्घसन्धिः ।
(२) निवर्तय मर्ति नीचां परदाराभिमर्शनात् ।
न तत्समाचरेद्धीरो यत्परोऽस्य विगर्हयेत्॥
प्रश्न-(क) परदाराभिमर्शनात् नीचां का निवर्तय?
(ख) कस्मात् नीचां मतिं निवर्तय ?
(ग) न तत्समाचरेद्धीरो यत् कः कस्य विगर्हयेत् ?
(घ) ‘परदाराभिमर्शनात्’ इत्यस्य पदस्य सन्धिविच्छेदं कुरुत।
(ङ) ‘मतिम्’ इति पदस्य विभक्ति वचनं च लिखत।
उत्तर-(क) परदाराभिमर्शनात् नीचां मतिं निवर्तय।
(ख) परदाराभिमर्शनात् नीचां मति निवर्तय।
(ग) न तत्समाचरेद्धीरो यत्परोऽस्य विगर्हयेत्।
(घ) ‘परदाराभिमर्शनात्’ – परदारा + अभिमर्शनात्।
(ङ) ‘मतिम्’ = द्वितीया विभक्तिः एकवचनं च।
११. पर्यावरणम्
(१) प्रकृतिः समेषां प्राणिनां संरक्षणाय यतते। इयं सर्वान् पुष्णाति विविधैः प्रकारैः, सुख-
साधनैः चतर्पयति । पृथिवी, जलम्, तेजः, वायुः,आकाश: च अस्याः प्रमुखानि तत्त्वानि। तान्येव मिलित्व
पृथक्तया वाऽस्माकं पर्यावरणं रचयन्ति । आवियते परितः समन्तात् लोकः अनेन इति पर्यावरणम्
यथा अजातश्शिशुः मातृगर्भे सुरक्षितः तिष्ठति तथैव मानव: पर्यावरणकुक्षौ। परिष्कृतं प्रदूषणरहित
च पर्यावरणम् अस्मभ्यं सांसारिक जीवनसुखं, सद्विचारं, सत्यसङ्कल्पं माङ्गलिकसामग्रीञ्च प्रददाति |
प्रकृतिकोपः आतङ्कितो जनः किं कर्तुं प्रभवति ? जलप्लावनैः, अग्निभयैः, भूकम्पैः, वात्याचक्र
उल्कापातादिभिश्च सन्तप्तस्य मानवस्य क्व मङ्गलम् ?
प्रश्न-(क) प्रकृतिः केषां संरक्षणाय यतते?
(ख) इयं कान् पुष्णाति ?
(ग) अस्याः प्रमुखानि तत्त्वानि कानि ?
(घ) तान्येव मिलित्वा पृथक्तया वाऽस्माकं किं रचयन्ति ?
(ङ) ‘मिलित्वा’ इत्यस्मिन् पदे प्रकृतिप्रत्ययं च पृथक्कुरुत।
उत्तर-(क) प्रकृतिः समेषां प्राणिनां संरक्षणाय यतते।
(ख) इयं सर्वान् पुष्णाति।
(ग) पृथिवी, जलं, तेजः, वायुः, आकाश: च अस्याः प्रमुत्खानि तत्वानि।
(घ) तान्येव मिलित्वा पृथक्तया वाऽस्माकं पर्यावरणं रचयन्ति।
(ङ) ‘मिलित्वा’ = मिल् धातुः क्त्वा प्रत्यय: च।
(२) अत एव अस्माभिः प्रकृतिः रक्षणीया। तेन च पर्यावरण रक्षित भविष्यति। प्राचीनकाले
लोकमङ्गलाशशंसिन प्रषयो वने निवसन्ति स्म। यतो हि वने सुरक्षित पर्यावरणामुपलभ्यते स्म । तत्र विविधा
विहगा: कलकूजियोत्ररसायनं ददति।
सरितो गिरिनिर्झराश्च अमृतस्वादु निर्मल जल प्रयच्छन्ति। वृक्षा लताश्च फलानि पुष्पाणि
इन्धनकाष्ठानि च बाहुल्येन समुपहरन्ति। शीतलमन्दसुगन्धवनपवना औषधकल्पं प्राणवायु वितरन्ति ।
प्रश्न-(क) अतएव कैः प्रकृतिः रक्षणीया ?
(ख) प्राचीनकाले ऋषयो कुत्र निवसन्ति स्म ?
(ग) सरितो गिरिनिर्झराश्च कीदृशं जलं प्रयच्छन्ति ?
(घ) वृक्षा लताश्च कानि बाहुल्येन समुपहरन्ति ?
(ङ) ‘ददति’ इत्यस्य पदस्य धातुं लकारं पुरुषं वचनं च लिखत।
उत्तर-(क) अतएव अस्माभिः प्रकृतिः रक्षणीया।
(ख) प्राचीनकाले ऋषयो वने निवसन्ति स्म?
(ग) सरितो गिरिनिर्झराश्च अमृतस्वादु निर्मलं जलं प्रयच्छन्ति।
(घ) वृक्षा लताश्च फलानि पुष्पाणि इन्धनकाष्ठानि च बाहुल्येन समुपहरन्ति।
(ङ) ददति = दा-धातुः लट् लकार: प्रथम:-पुरुषः बहुवचनम्-वचनम्।
(३) परन्तु स्वार्थान्धो मानवः तदेव पर्यावरणम् अद्य नाशयति। स्वल्पलाभाय जना बहुमूल्यानि
वस्तूनि नाशयन्ति। जनाः यन्त्रागाराणां विषाक्तं जलं नद्यां निपातयन्ति तेन मत्स्यादीनां जलचराणां च
क्षणेनैव नाशो भवति। नदीजलमपि तत्सर्वथाऽपेयं जायते। मानवा: व्यापारवर्धनाय वनवृक्षान् निर्विवेकं
छिन्दन्ति। तस्मात् अवृष्टिः प्रवर्धते, वनपशवश्च शरणरहिता ग्रामेषु उपद्रवं विदधति। शुद्धवायुरपि
वृक्षकर्तनात् सङ्कटापन्नो जायते। एवं हिस्वार्थान्धमानवै: विकृतिम् उपगता प्रकृतिः एव सर्वेषां विनाशकी
भवति। विकृतिमुपगते पर्यावरणे विविधाः रोगा: भीषणसमस्याश्च सम्भवन्ति । तत्सर्वमिदानी चिन्तनीयं
प्रतिभाति।
प्रश्न-(क) स्वार्थान्धो मानवस्तदेव किम् अद्य नाशयति?
(ख) स्वल्पलाभाय जना: कानि नाशयन्ति ?
(ग) जना: यन्त्रागाराणां विषाक्तं जलं कुत्र निपातयन्ति ?
(घ) शुद्धवायुरपि कस्मात् सङ्कटापन्नो जायते ?
(ङ) ‘नद्याम्’ इत्यस्य पदस्य विभक्ति वचनम् च लिखत।
उत्तर-(क) स्वार्थान्धो मानवः तदेव पर्यावरणम् अद्य नाशयति।
(ख) स्वल्प लाभाय जनाः बहुमूल्यानि वस्तूनि नाशयन्ति।
(ग) जना: यन्त्रागाराणां विषाक्तं जलं नद्यां निपातयन्ति।
(घ) शुद्धवायुरपि वृक्षकर्तनात् सङ्कटापन्नो जायते।
(ङ) ‘नद्याम्’ – सप्तमी विभक्ति एकवचनं च।
१२. वाङ्मनः प्राणस्वरूपम्
(१) आरुणिः-सौम्य ! अश्यमानस्य तेजसो योऽणिमा, सऊर्ध्वः समुदीषति। सा खलु वाग्भवति।
वत्स! उपदेशान्ते भूयोऽपि त्वां विज्ञापयितुमिच्छामि यत् अन्नमयं भवति मनः, आपोमयो भवति प्राणाः
तेजोमयी च भवति वागिति। किञ्च यादृशमन्नादिकं गृह्णाति मानवस्तादृशमेव तस्य चित्तादिकं भवतीति
मदुपदेशसारः। वत्स! एतत्सर्वं हृदयेन अवधारय।
प्रश्न-(क) अश्यमानस्य तेजसो योऽणिमा स कुन समुदीषति ?
(ख) सा खलु किं भवति ?
(ग) कदा भूयोऽपि त्वां विज्ञापयितुमिच्छामि ?
(घ) एतत्सर्वं केन अवधारय ?
(ङ) ‘भवतीति’ इत्यस्य पदस्य सन्धि-विच्छेदं कृत्वा सन्धेः नाम लिखत।
उत्तर- (क) अश्यमानस्य तेजसो योऽणिमा स ऊर्ध्वः समुदीषति।
(ख) सा खलु वाग्भवति।
(ग) उपदेशान्ते भूयोऽपि त्वां विज्ञापयितुमिच्छामि।
(घ) एतत्सर्वं हृदयेन अवधारय।
(ङ) ‘भवतीति’ = भवति + इति, दीर्घसन्धि।
Leave a Reply